गोवायां श्रीधरपादपूजा

वार्ता

वरदहल्लीस्थितात् श्रीधराश्रमात् समागताभ्यां श्रीधरस्वामिनां दिव्यपादुकाभ्यां १३/०३/२०१९ तः १७/०३/२०१९ दिनाङ्कपर्यन्तं गोवायां भक्तजनानां गृहाणि गत्वा पादपूजां भिक्षासेवां च स्वीकृत्य भक्ताः अनुगृहीताः।

 

१७/०३/२०१९ तमे दिनाङ्के एकादश्यां रविवासरे गोवाहव्यकवलयेन पादपूजाभाग्यमविन्द्यत ।

 

पादुकावसतौ रेखा-मञ्जुनाथहेगडेदम्पत्योः गृहे सभार्येण डि के हेगडेमहोदयेन द्वितीयासहितेन कृष्णमूर्तिमहाभागेन च पादपूजा निर्वर्तिता।

 

अभूतपूर्वेऽस्मिन् समारम्भे उपपञ्चाशत् जनाः उपस्थिताः।
अयमवसरः भाग्यवशादेव सम्प्राप्तः इति चिन्तयित्वा सर्वे कृतकृत्यतामन्वभवन् ।

 

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *