ज्ञानदानमेव सर्वमठीयं प्रमुखं कर्तव्यम् – श्रीेसंस्थानम् ।

श्रीसंस्थानम्

माणि: ज्ञानदानमेव सर्वेषां मठानां प्रमुखं कर्तव्यम्। तदभावे महान् लोपः आचरितो भवति। विंशतिषु वर्षेषु जनानां मनस्थितिः पर्यवर्तत। इतोऽपि विलम्बम् अकृत्वा वयम् अस्यामेव कालमितौ विश्वविद्यापीठ-संस्थापन-सङ्कल्पम् अकार्ष्म इत्येवं श्रीरामचन्द्रापुरमठस्य जगद्गुरवः शङ्कराचार्य-श्रीश्रीराघवेश्वर-भारती-महास्वामिनः अवादिषुः।

 

माणि,पेराजे, एवं श्रीरामचन्द्रापुरमठेषु महाक्षेत्रेषु प्रचालितायां विष्णुगुप्त-विश्वविद्यापीठ-मार्गदर्शन-सभायां स्वामिनः स्व-आशीर्वचोभिः सभासदः अन्वगृह्णन् ।

 

श्रीशङ्कराचार्याः ज्ञानरूपेण बलेन देशं पर्यवर्तिषत। सर्वोत्कृष्ट-आर्षविद्याकेन्द्राणां संस्थानपनापूर्वकं आर्षविद्याप्रदानपुरस्सरं छात्रेषु धर्मनिष्ठा-देशनिष्ठा-संस्कृतिनिष्ठा-सहित-परिपूर्ण-व्यक्तित्व-साधनपूर्वकं समाजस्य परिवर्तनमेव विष्णुगुप्त-विद्यापीठस्य मुख्यम् उद्देश्यम् । अग्रिम (२०२०) -एप्रिल् मासस्य २६ दिनाङ्के अक्षयतृतीयायाम्  अयं विश्वविद्यालयः लोकाय समर्प्यते इत्यवदन् ।

 

सेवार्थ-ज्ञानर्थ-योजनाः मठीय-कार्यकलापेषु प्रामुख्यं भजन्ते। वयं विश्वविद्यालयस्य अस्य स्थापनसङ्कल्पं १९९९तमे वर्षे एप्रिल्-मासस्य २८ दिनाङ्के एव उदजूघुषाम। एवं पीठारोहणदिने सर्वजनपुरस्तात् कृतः सङ्कल्पः इदानीं कार्यरूपं भजमानः इत्येवम् अवोचन् ।

 

सर्वकारः, समाजः, एवं मठाश्च एतादृशं कार्यम्  अवश्यं कुर्युः, परं नाकार्षुः । अतः कारणात् क्वचिदपि परिपूर्ण-भारतीय-विद्याकेन्द्राणि न सन्ति। अतः तादृश-उत्कृष्टकार्यसाधनार्थं मठः अग्रेसरन् वर्तते। शङ्करावतारवशात् समाजः अंशतः रक्षितः । तदवच्छिन्नपरम्परायां विद्यमानस्य अस्य मठस्य एतादृश-उत्कृष्टकार्यसाधनार्थम् अग्रेसरणम् अनिवार्यमेव इत्यभाषिषत।

 

धर्म-देश-समाजानां रक्षणार्थम् उत्कृष्टकार्यं कुर्मः । अस्मत्-परम्परायां कृताः सङ्कल्पाः कार्यरूपं भजन्ते इत्यत्र विश्वगोसम्मेलन-रामायणामहासत्र-गोस्वर्गादिरूप-अपूर्व-कार्याण्येव निदर्शनम् इत्य्भाणिषुः।

 

चतुर्णां वेदानाम्, उपवेदानां, वेदाङ्गानां,चतुष्षष्टि-कलानां,भारतीयमूलविद्यानाम्,अधुनिकभाषाणां,तन्त्रज्ञानानाम्,आत्मरक्षणार्थं समर-विद्यानां, च पाठनपुरस्सरं परिपूर्णव्यक्तित्वनिर्माणम् एव विद्यापीठस्य अस्य मुख्यम् उद्देश्यम् । एवं सर्वविद्यापरिचयपूर्वकम् एकस्याः विद्यायाः तलस्पर्शिज्ञानमिह साध्यम् ।

 

महत्कार्यस्याऽस्य परिपूर्णतासम्पादनार्थं शिष्याः सर्वेऽपि स्व-वार्षिक-सन्दायस्य ५% मौल्यं प्रदद्युः । एवं समर्पणान्तरमपि कर्तुमवकाशः कल्प्यते इत्येवम् असूसुचन् । विद्यालयस्यास्य निर्माणार्थं प्रायशः १० कोटिपरिमित-धनेन प्राचीन-शैल्या निर्मितं कुलगुरुनामकं गुरुनिवासं च समर्पयामः इत्येवम् अवादिषुः। डा॥ गजाननशर्मा प्रस्ताविकं वचनम् अवदन्। हव्यकमहामण्डलस्य अध्यक्षा ईश्वरीभट् बेर्कडवु, प्रधानकार्यदर्शी हरिप्रसाद् पेरियाप्पु,  नियोजितकार्यदर्शी पि. नागराजभट्, प्रमुखाः हारकेरे नारायणभट् , एवम् अन्ये च समुपस्थिताः आसन् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *