रामकथाकवेः डा. गजाननशर्मणः कथाख्यानस्य लोकार्पणम् । लिङ्गनमक्किजलाशयवशात् समूलं विलीनस्य जीर्णस्य च जनजीवनस्य व्यथायाः कथानकः ।

Continue Reading

नाट्यतरङ्गे अष्टमसंस्कृतिसप्ताह:

नाट्यतरङ्ग: स्वस्य अष्टमसंस्कृतिसप्ताहस्य सिद्धतां कुर्वन्नस्ति । प्रतिवर्षम् उत्तमोत्तमतया कार्यक्रमम् आयोजनीयमिति तेषां प्रयत्न: । सप्ताहे$स्मिन् सङ्गीतं, विविधप्रकारकनृत्यानि, यक्षगानं, वाद्यसङ्गीतादय: कार्यक्रमा: सम्पत्स्यन्ते । सप्ताहेस्मिन् अन्यान्य राज्येभ्य: चत्वारिंशदधिका: कलाविद:, चत्वारिंशदधिकक्षेत्रेषु कृतभूरिपरिश्रमा: अतिथय: आगमिष्यन्ति । कलाक्षेत्रस्य साधकानां सम्माननम्, उदयोन्मुखकलाविदां प्रोत्साहनम्, वृद्धानां सम्माननञ्च अत्र आयोजितमस्ति । कार्यक्रमे$स्मिन् भागं वोढ्वा अस्मान् तोषयन्तु, कार्यक्रमं सुसम्पन्नं कुर्वन्तु इति सङ्घटकानाम् आवेदनम्।

Continue Reading

डिसेम्बरमासस्य प्रथमदिने मङ्गलगोयात्रायाः स्मरणसञ्चिकायाः लोकार्पणम्

बेङ्गलूरु – श्रीरामचन्द्रापुरमठस्य गिरिनगरस्थे श्रीरामाश्रमे डिसेम्बरमासस्य प्रथमदिने मध्याह्ने द्वादशवादने श्रीभारतीप्रकाशनेन प्रकटीक्रियमाणस्य `सन्मङ्गलम्’ इत्याख्यस्य मङ्गलगोयात्रायाः स्मरणसञ्चिकापुस्तकस्य लोकार्पणं श्रीसंस्थानाधीश्वराणां श्रीपाणिश्रीपर्णाभ्यां सम्पत्स्यते ।

Continue Reading

अस्य मासस्य धर्मभारत्याम्

अय्यप्प, अय्यनार्, अय्यन्, बेटे अय्यप्प चेत्यादिपदैः प्रथितनामानं, वैदिकजानपदक्षेत्राभ्यां सम्प्राप्तसम्मानं, देवं शास्तारं लक्ष्यीकृत्य डा. बि. एन्. मनोरमावर्यायाः विचारभूयिष्ठं लेखनम् ।   अर्वाचीनकालेsस्मिन् महिलारोगसमस्यासु अग्रगण्यं पिसिओएस् (PCOS) नामानं रोगमधिकृत्य डा. सुवर्णिनी कोणले महोदयायाः विवरणात्मकः लेखः ।   राजानं सन्दिदृक्षया प्रजापुरुषः निरगच्छत् पाथेयसामग्रीकण्डोलं सज्जीकृत्य । त्रयोदशाहं प्रयाणम् । अविरतमग्रे अग्रे ससार सः ।अग्रे किं जाघटी इति गोपालकृष्णकुण्टिनिमहाभागस्य कथायाम् […]

Continue Reading

श्रीमठस्य शिष्या सङ्गीतविदुषी श्रीमती वसुधाशर्ममहोदया प्रशस्तिसभाजिता – राष्ट्रिययुवसङ्गीतोत्सवे सम्मानम्

मैसूरु – मैसूरुनगरे नवम्बरमासस्य प्रथमसप्ताहे प्रवृत्ते दिनचतुष्टयात्मके ‘राष्ट्रिययुवसङ्गीतोत्सवः – २०१८’ इति कार्यक्रमे श्रीरामचन्द्रापुरमठस्य शिष्या सङ्गीतविदुषी श्रीमती वसुधाशर्ममहोदया प्रशस्तिसभाजिता ।   मैसूरुनगरस्थस्य अवधूतदत्तपीठस्य श्रीगणपतिसच्चिदानन्दाश्रमसंस्कारभारतीसंस्थयोः सहयोगेन नादमण्डपे समायोजिते राष्ट्रिययुवसङ्गीतोत्सवे विविधक्षेत्रेषु समाचरितानुपमसेवाः गण्याः सम्मानेन प्राप्तगौरवाः अभवन् । तेषु सम्मानप्रशस्तिभ्यां विभूषितेषु श्रीमती वसुधाशर्ममहाभागा अन्यतमेति प्रमोदावहो विषयः ।   श्रीमती वसुधाशर्ममहोदया मैसूरुमहाराजः यदुवीर ओडेयरमहोदयः, राज्यसर्वकारस्य उन्नतशिक्षणसचिवः जि.टि. देवेगौडमहोदयः इत्यनयोः हस्ताभ्यां […]

Continue Reading

श्रीमठस्य शिष्याय नेपथ्यध्वनिदानकलाकाराय प्रदीपबडेक्किलमहोदयाय `सृष्टिकलोपासकः’ इति प्रशस्तिः

बेङ्गलूरु – जयनगरस्य जे. एस्. एस्. सभाङ्गणे शनिवासरे प्रवृत्ते सृष्टिकलाविद्यालयस्य सङ्गीतनृत्योत्सवसमारम्भे चलच्चित्रलघुचित्रपटनटाय दूरदर्शननिरूपकाय लेखकाय श्रीरामचन्द्रापुरमठस्य बह्वीनां प्रस्तुतीनां ध्वनिदानकलाकाराय प्रदीपबडेक्किलमहोदयाय `सृष्टिकलोपासक:’ इति प्रशस्तेः प्रदानं कृतम् ।   लघुचित्रपटस्य बहुभ्यः जनप्रियकार्यक्रमेभ्यः दत्तनेपथ्यध्वनिरेषः मेट्रोरेलयानस्य उद्घोषणानामपि कण्ठध्वनिं दत्तवानस्ति । श्रीमठस्य शिष्यः असौ प्रशस्तिभागभूदिति विज्ञाय श्रीसंस्थानाधीश्वराः श्रीमठस्य शिष्याश्च च नितान्तमानन्दं प्राकटयन् ।   अस्मिन्नेव समारोहे कवये दोड्डरङ्गेगौडमहोदयाय `सृष्टिकलाभूषणः’ इति प्रशस्तेः […]

Continue Reading

श्रीरामाश्रमे सङ्गीतसेवा

बेङ्गलूरु – फलपुष्पादिभिः यथा भगवन्तं सेवन्ते तथैव सङ्गीतकलाकारः श्रीरघुनन्दनबेर्कडवुमहोदयः श्रीकरार्चितदेवतानां सान्निध्ये स्वगानसुधया सेवां समार्पयत् । गुरुवासरे (०१-११-२०१८) गिरिनगरस्थे श्रीरामाश्रमे सः महोदयः कर्णाटकशास्त्रीयसङ्गीतकार्यक्रमं देवसन्निधौ समर्पितवान् । नाट-रागादारभ्य बहुदारी, देवगान्धारी, रीतिगौल, दर्बार, पन्तुवराली, कानड, सिन्धुभैरवी, दुर्गा, मिश्रपहाडी, मोहन, कल्याणी, सौराष्ट्ररागान् च गीत्वा श्रीरामस्य सन्निधौ नैजां कलासेवामकरोत् । श्रीसंस्थानाधीश्वराणाम् आशीर्वादेन सूचनया च श्रीरघुनन्दनमहोदयः एतादृशसङ्गीतसेवामाध्यमेन सेवां कृत्वा भगवतः कृपाभाक् […]

Continue Reading

शनिवासरे श्रीरामाश्रमे `रामपदम्’ सत्सङ्गः

बेङ्गलूरु – एकादश्यां हरिदिने श्रीसंस्थानाधीश्वरैः प्रचाल्यमानं रामपद्यानां गानव्याख्यानानुसन्धानात्मकं रामपदम् इत्याख्यः सहजसत्सङ्गकार्यक्रमः शनिवासरे (०३-११-२०१८) सायङ्काले षड्वादनतः अष्टवादनपर्यन्तं प्रचलिष्यति । गिरिनगरस्य श्रीरामाश्रमे यथापूर्वं प्रचाल्यमाने अस्मिन् रामपदकार्यक्रमे श्रीसंस्थानाधीश्वराः रामपदे समुपविश्य श्रीरामसम्बन्धीनि पद्यानि गायन्तः श्रीरामचन्द्रप्रभोः गुणविशेषान् परिचाययन्तः सत्सङ्गसभां प्रवर्तयिष्यन्ति । अस्मिन् रामपदकार्यक्रमे हिन्दूस्थानीसङ्गीतक्षेत्रे उदयोन्मुखः गायनः सिद्धार्थः बेल्मण्णु भागी भविष्यति । कलारामविभागेन आयोज्यमानेऽस्मिन् विशिष्टे कार्यक्रमे भवन्तः सर्वे भागमूढ्वा श्रीरामचन्द्रस्य कृपाभाजः […]

Continue Reading

अस्य मासस्य धर्मभारत्याम्

भारतीयानां मनांसि भगवद्भक्तिद्वारा स्थिरीकृत्य सम्प्रदायानां परम्पराणां च संरक्षणे संवर्धने च श्रीत्यागराजयोगिनः योगदानम् अपारम् । तैः विरचितानाम् उत्सवसम्प्रदायकीर्तनानां विषये काञ्चन रोहिणी सुब्बरत्नं महाभागायाः सविस्तरं लेखनम् । `एताद्राज्यमधिकृत्य वद हे पितामहि !’ इति राजावदत् । `तन्न त्वया प्रष्टव्यं मया नोक्तव्यं च’ इति पितामही अगदत् । कथा का पितामह्याः राज्यस्य ? श्रीगोपालकृष्ण कुण्टिनि महाभागस्य कथायाम् । दिव्यसन्निधौ श्रीसंस्थानाधीश्वराणां […]

Continue Reading