प्रणतिपञ्चकम् – डा. राघवेन्द्रभट्टः क्यादगि

  लोकशोकदरवारणे गहनकाननेऽर्णवपरायणेऽ- -शोकदेशशतशृङ्गशृङ्गशिखरे रघूत्तममठोत्तमम् । आत्मलिङ्गपरमात्मलिङ्गपरमाप्तलिङ्गवलयाद्व्रजन् शङ्करः परवशङ्करः पुरहितङ्करः परिचकार च ॥१॥   राघवेन्द्र गुरुराज राजगुरुराजदेशिक नमो नमो ।   राघवेन्द्र गुरुराज राजगुरुराडवावनपरायण ॥   शङ्करार्यगुरुरेव नैजवरशिष्यमात्मसदृशं ह्यवि- -च्छिन्नपीठपतिमत्र राघवमथार्यमान्वयविनायकम् । चन्द्रमौलिमधिचन्द्रकान्तिछविभासकं च गुरुपादुकां हव्यकेशमिदमादिदेश नवमन्वहं सविधि पूजयेत् ॥२॥   राघवेन्द्र गुरुराज राजगुरुराजदेशिक नमो नमो ।   राघवेन्द्र गुरुराज राजगुरुराडवावनपरायण ॥   श्रीरघूत्तममठान्वये नियतिधर्मरक्षणधुरन्धरः […]

Continue Reading

श्रीरामचन्द्रपुरपीठमठाग्रकेन्द्रे श्रीभारतीगुरुकुले तुलसीविवाहम् । सम्भूय सर्वगुरवो निजशिष्यवृन्दैरानन्दसान्द्रहृदयास्सममन्वतिष्ठन् ॥

Continue Reading