श्रीक्षेत्रहैगुन्दद्वीपे अस्ति दिव्यत्वं, प्रकृतिरम्यत्वं, अनुपमवैशिष्ट्यं च

प्रशान्तसुन्दरशरावतीतीरप्रदेशे विश्वजनन्याः श्रीदुर्गाम्बिकायाः मन्दिरं वरीवर्तते । हव्यकब्राह्मणानां मूलस्थानमिति प्रसिद्धेयं प्राचीनयागभूमिः । वर्षाकाले, ग्रीष्मर्तौ च सस्यश्यामलतया शोभतेऽयं द्वीपः । माकिं पञ्चशतोत्तरसहस्रवर्षेभ्यः प्राक् बनवासिसंस्थानस्य कदम्बराजः मयूरवर्मा यज्ञार्थं हैगुन्दमचिनोत् । यागरक्षणार्थं शरावतीनदीं विभज्य यागभूमिं परितः जलप्रवाहं निर्मितवान् । सरस्वतीनदीतीरस्य अहिच्छत्रनगरात् सप्तगोत्रीयविप्रानाहूय यागानुष्ठानार्थं वसतिं प्राकल्पयत् । हव्य-कव्यादीनां सम्यगाचरणेन एते द्विजाः ‘हव्यग, हवीक, हव्यक, हैग’ इत्यादिभिः शब्दैः सम्बोध्यन्ते स्म । […]

Continue Reading