बसरीकट्टेस्थे ‘श्रीसद्गुरुविद्यानिकेतने’ ‘भारतीयसंस्कृतिशिक्षणशिबिरम्’

चिक्कमगळूरु- चिक्कमगळूरुमण्डलस्य कोप्पोपमण्डलस्य बसरीकट्टेस्थस्य ‘श्रीसद्गुरुविद्यानिकेतनस्य’ ब्राह्मणच्छात्रावासे भारतीयसंस्कृतेः परिचायकं शिक्षणशिबिरमायोजितम् । ११.०૪.२०१९ दिनाङ्कतः १८.०૪.२०१९ दिनाङ्कपर्यन्तं अष्टदिनात्मकमिदं शिबिरं भविता । १० तः २૪ वर्षीयाणां त्रिमतस्थब्राह्मणयुवक-युवतीनामेव शिबिरे अवसरः वर्तते। वेदमन्त्राः, स्तोत्राणि, धर्मः, संस्कृतिः, आचारः, आहारः, संस्काराः, स्त्रीशिक्षणम् , भारतदेशस्य संस्कृतेः वैभवम् इत्यादीनाम् अनेकसद्विचाराणां शिक्षणं प्रदास्यते ।   आसक्ताः ०१.०૪.२०१९ दिनाङ्कात् पूर्वमधः प्रदत्तचरदूरवाणीसङ्ख्यानां सम्पर्कं कृत्वा मौखिकरूपेण प‍ञ्जीकरणं / नामाङ्कनं […]

Continue Reading

वर्धन्त्युत्सववदाचरितम् विद्यालयस्य स्थापनदिनम् ।

  मुजुङ्गावु : मुजुङ्गावुस्थितस्य श्रीभारतीविद्यापीठस्य वर्धन्त्युत्सवः २६.०१.२०१९ तमे दिनाङ्के शनिवासरे संवृत्तः । प्रातः शङ्खानादेन ध्वजारोहणेन च सह कार्यक्रमोऽयमारब्धः । पालक-शिक्षकसङ्घस्य अध्यक्षः पुरुषोत्तमाचार्यवर्यः ध्वजारोहणं विधाय भाषणमकरोत् । शासनसमितेः अध्यक्षः एस्.एन्.राव् मुन्निप्पाडिवर्यः हितवचनमवादीत् । अपराह्णे द्विवादने समापनसमारोहः प्राचलत् । अस्मिन् कार्यक्रमे अभ्यागतरूपेण आगतः एडनाडुग्रामस्य अधिकारी सत्यनारायणतन्त्रीमहोदयः “कस्यचित् विद्यार्थिनः जन्मदिनं तस्मायेव सन्तोषं प्रददाति। । किन्तु कस्यचित् विद्यालयस्य जन्मदिनं […]

Continue Reading

राज्यस्तरीया निर्वाचनसम्बद्धा रसप्रश्नस्पर्धा – प्रगतिविद्यालयः प्रथमः

बेङ्गलूरु – बेङ्गलूरुमहानगरे प्रवृत्तायां राज्यस्तरीयायां निर्वाचनविषयिण्यां रसप्रश्नप्रतियोगितायां मूरूरुस्थस्य प्रगतिविद्यालयस्य छात्रौ कुमारौ सुमुखभटृ-सुजयभट्टाख्यौ प्रथमस्थानं सम्प्राप्य राष्ट्रस्तरीयप्रतियोगितायां भागं वोढुं चितौ वर्तेते ।   विद्यालयस्य शिक्षकवृन्दः तौ छात्रौ अभिनन्द्य अग्रिमस्तरस्य स्पर्धायै शुभमाशंसत् ।  

Continue Reading

राष्ट्रस्तरे भासमानः छात्रः

वैशिष्ट्यप्रशस्तिपुरस्कृतः मूरूरु विद्यालयः   मूरूरु:- मूरूरुग्रामस्य प्रगतिविद्यालयस्य आङ्ग्लमाद्यमविभागस्य कुमारः अभि अडिगुण्डि चक्रक्षेपणस्पर्धायां राज्यस्तरीयक्रीडाकूटे विजयं सम्प्राप्य देहल्यां प्रचलितायां राष्ट्रस्तरस्पर्धायां राज्यस्य प्रातिनिध्यमूढ्वा अभिः सततं तृतीयवारं राष्ट्रस्तरे राजमानोऽस्ति। अस्य समर्जनं प्रशंस्य विद्यालयस्य प्रबन्धनमण्डलिः शिक्षकवर्गः च तं हार्दमभ्यनन्दत् ।

Continue Reading

राष्ट्रस्तरे मुरूरु छात्रः प्रशस्तः ।।

मूरूरु:- मूरूरु प्रगति विद्यालयस्य आङ्ग्लमाद्यम विभागस्य अभि अडिगुण्डि चक्र उड्डयन स्पर्धायां देहल्यां प्रचलितं राष्ट्रस्तरस्पर्धायां राज्यं प्रतिनिधितवान्। अभिः सततं त्रिवारं राष्ट्रस्तरे विराजमानोऽस्ति।अस्य विजिगीषु प्रवृत्तिं प्रशंस्य शालायाः प्रशासनसमितिः तथा च शिक्षकवर्गः अभिनन्दिताः।

Continue Reading

श्रीभारतीगुरुकुले व्योमविज्ञानकार्यशाला

  होसनगरम् – श्रीमठस्य श्रीभारतीगुरुकुले खगोलविज्ञानस्य व्यर्थवस्तुनिर्वहणस्य च विषये इस्रो संस्थायाः निवृत्तनिदेशकः डा. पि. जे. भट्टवर्यः दिनद्वयव्यापिनीं कार्यशालां समचालयत् । अन्ते छात्राणां संशयान् दूरीकृत्य, छात्रेभ्यः स्फूर्तिप्रश्नस्पर्धां च सञ्चाल्य विजेतृभ्यः पारितोषकाणि प्रादात् । पश्चात् प्रवृत्ते समारोपकार्यक्रमे अभ्यागतः मैसूरु लक्ष्मीताण्डवेश्वरमहाभागः छात्रान् प्राशंसत् ।

Continue Reading

नाना क्षेत्रेषु समर्जनं विदधद्भ्यः पञ्च छात्रेभ्यः प्रतिभापुरस्कारानुग्रहः

  बेङ्गलूरु – हव्यकमहामण्डलस्य विद्यार्थिवाहिनीविभागद्वारा १६.१२.२०१८ तमे दिनाङ्के गिरिनगरस्य श्रीरामाश्रमे नाना क्षेत्रेषु समर्जनं कृतवन्तः छात्राः श्रीसंस्थानाधीश्वराणां करकमलाभ्यां सानुग्रहप्रतिभापुरस्कारमवाप्नुवन् ।   श्रीरामचन्द्रापुरमण्डलान्तर्गतस्य तीर्थराजपुरवलयस्य सौम्यासुरेशकुमारदम्पत्योः यामिनीभट्टाख्या सुपुत्री सुवर्णपदकद्वयेन साकम् आभियान्त्रिकपदवीमवाप्य विशिष्टं समर्जनमकरोत् ।   मुल्लेरियामण्डलान्तर्गतस्य एण्मकजेवलयस्य सुमित्रावेङ्कटराजयोः पुत्री मानसा स्नातकोत्तरतन्त्रज्ञानपदव्यां (एं. टेक्) स्वर्णपदकं सम्प्राप्य समर्जनविशेषं व्यदधात् ।   उप्पिनङ्गडिमण्डलान्तर्गतकबकवलयस्य उषावेङ्कटेशभट्टयोः सुपुत्रः डा. नवनीतभट्टः आयुर्वेदशास्त्रे स्नातकोत्तरपदवीपरीक्षायां तुरीयस्थानमलभत । […]

Continue Reading

श्रीसंस्थानाधीश्वराणां विशेषानुग्रहः

बेङ्गलूरु – हव्यकमहामण्डलपक्षतः प्रत्यभिज्ञाता योगक्षेत्रे विशेषसमर्जनसाधिका सन्ध्याभट्टमहोदया १६.१२.२०१८ तमे दिनाङ्के श्रीसंस्थानाधीश्वराणां विशेषानुग्रहमवाप्नोत् ।   दक्षिणबेङ्गलूरुमण्डलान्तर्गतस्य सर्वधारीवलयस्य पट्नडक नारायणभट्टस्य भार्या, पुत्तुरूक्षेत्रस्य शासकचरस्य उरिमजलुरामभट्टस्य पुत्री इयं राज्यराष्ट्रस्तरीयासु स्पर्धासु भागमूढ्वा बहून् पुरस्कारान् अलभत । योगस्पर्धासु निर्णयदात्री एषा राष्ट्रिययोगनिरीक्षिका च भूत्वा विशिष्टं समर्जनं व्यदधात् । पञ्जाबराज्ये प्रवृत्तायां राष्ट्रस्तरीयस्पर्धायां भागग्राहिका असौ साम्प्रतम् ‘एष्यन् चाम्पियनशिप्’ स्पर्धार्थं चिता विद्यते ।  

Continue Reading

गोस्वर्गे बालानां कलरवः – गोभिस्सह सङ्गत्या परवशमनस्काः बालाः

सिद्धापुरम् – गवां प्रत्यक्षस्वर्गभूते गोस्वर्गे भानुवासरे गोभिः साकं बालानां करङ्गणः एव संसृष्टः आसीत् ।   सिद्धापुरस्य प्रशान्तिविद्यालयस्य बालाः गोस्वर्गं समागत्य गवां विषये ज्ञानं सम्प्राप्य तासां कायान् सम्मृश्य गोग्रासं च दत्वा तत्रैव क्रीडनेन सन्तोषमप्यनुभूतवन्तः ।   शिक्षकै: कैश्चन पालकैश्च सह गोस्वर्गं समागताः बालाः एकत्रैव बह्वीनां गवां बृहत्समूहं दृष्ट्वा आनन्दतुन्दिलाः सञ्जाताः । पश्चात् गोस्वर्गे एव माध्याह्निकं प्रसादभोजनमपि […]

Continue Reading

सुसम्पन्ना श्रीभारतीविद्यालये छात्रैकाग्रताकौशलकार्यशाला

बेङ्गलूरु – श्रीरामचन्द्रापुरमठस्य धर्मचक्रसंस्थानस्य शालामालायाम् अन्यतमस्य बेङ्गलूरुहम्पिनगरस्थितस्य श्रीभारतीविद्यालयस्य नवमदशमकक्ष्ययोः छात्राणां कृते “अध्ययने एकाग्रता पठनकौशलानि च” इति विषयमधिकृत्य प्रशिक्षाकार्यागारः समायोजितः आसीत् । जयगौरीवर्या इमां कार्यशालां सञ्चाल्य छात्राणां मार्गदर्शनम् अकरोत् ।

Continue Reading