श्रीरामाश्रमे श्रीराघवेन्द्रभारतीमहास्वामिनाम् आराधनामहोत्सवः

उपासना

ब्रह्मलीनानां परमगुरूणां श्रीमज्जगद्गुरुशङ्कराचार्यश्रीराघवेन्द्रभारतीमहास्वामिनां सांवत्सरिकः आराधनामहोत्सवः विलम्बसंवत्सरस्य मार्गशिरशुक्लाष्टम्यां स्थिरवासरे, १५.१२.२०१८ तमे दिनाङ्के आचरिष्यते ।

 

अयमाराधनामहोत्सवः गिरिनगरस्थे श्रीरामाश्रमे श्रीमज्जगद्गुरुशङ्कराचार्यश्रीराघवेश्वरभारतीमहास्वामिनां दिव्यसान्निध्ये भविष्यति ।

 

पश्चात् प्रचालयिष्यमाणायां धर्मसभायां श्रीराघवेन्द्रभारतीपाण्डित्यपुरस्कारः, श्रीसंस्थानाधीश्वराणामाशीर्वचनं, श्रीपरम्परानुग्रहः, मन्त्राक्षतानुग्रहः चेत्यादयः कार्यक्रमाः सम्पत्स्यन्ते ।

 

श्रीमठस्य शिष्यभक्ताः अस्मिन् महोत्सवे भागिनो भूत्वा श्रीगुरुदेवतानुग्रहं प्राप्नुवन्तु इति श्रीमठस्य उत्सवकार्यदर्शी हिरेमने शान्तारामवर्यः विज्ञापितवान् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *