उत्तरबेङ्गलूरुमण्डले समाचरितः कार्त्तिकदीपोत्सवः भजनाकार्यक्रमश्च

उपासना

उत्तरबे‌‍‌‍‍‌ङ्गलूरुहव्यकमण्डलस्य कार्यदर्शिनः गोपालकृष्णमहाभागस्य साक्षात्कारकलानिकेतननामके गृहे कार्त्तिकदीपोत्सवः भजनाकार्यक्रमश्च नवम्बरमासे २२ दीनाङ्के सुसम्पन्नः ।

 

मण्डलाध्यक्षः जि.जि. हेगडे तलेकेरे महाभागः दीपं प्रज्वाल्य कार्यक्रमम् उदघाटयत् । तदनु भाषमाणः सः ‘कार्त्तिकमासस्य शुभावसरे बालैः साकम् कार्यक्रमेsस्मिन् समवेताः स्मः । एतादृशकार्यक्रमाणाम् आयोजनेन बालानां कौशलवर्धनाय अवसरः कल्पितो भवति । अस्माकं सङ्घटनापि बलिष्ठा भवति’ इत्यादिभिः वचनैः कार्यक्रमोsयं यशस्वी भूयादिति शुभाशंसनम् अवोचत् ।

 

मण्डलस्य मातृप्रधाना वीणागोपालकृष्णमहाभागा भुवनगिरिवलयनिवासिनी विद्यामहोदया च भजनप्रशिक्षणं प्रदत्तवत्यौ । ततः मातरः बालाश्च सम्भूय दीपं प्रज्वाल्य भजनमकुर्वन् ।
मातरः बालाश्चेति उपषष्टिः जनाः भागमवहन् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *