गोवाहव्यकवलयेन कार्त्तिकदीपोत्सवः कुङ्कुमार्चनम् अष्टावधानसेवा खाद्योत्सवश्च

उपासना

गोवाहव्यकवलयेन कार्त्तिकदीपोत्सवः विशिष्टरीत्या समाचरितः । नवेम्बरमासस्य २४ तमे दिनाङ्के.शनिवासरे कार्त्तिककृष्णप्रतिपदि मडगांवनगरस्थे श्रीगजाननमहाराजमठे कार्त्तिकदीपोत्सवः सम्पन्नः । तदङ्गतया कुङ्कुमार्चनम्, अष्टावधानसेवा, दीपाराधनं, खाद्योत्सवश्च प्राचलत् ।

 

श्रीगुरुवन्दनया आरब्धे कार्यक्रमे रेखाहेगडे, ममताहेगडे चेत्यनयोः नेतृत्वे पञ्चदश महिलाः कुङ्कुमार्चनमकुर्वन् । वलयस्य संस्कारप्रधानः महाबलभट्टः अष्टावधानसेवायाः नेतृत्वमूढ्वा सङ्क्षेपेण दीपस्य महत्त्वमवर्णयत् ।

 

भावपूर्णगीतानि गायन्तः सर्वेsपि दीपं प्रज्वाल्य स्वात्मज्योतिप्रदीपनस्य सङ्कल्पमकुर्वन् ।

 

वलयसदस्यैः स्वगृहेषु पक्वानि स्वादिष्टानि हव्यकसम्प्रदायविशिष्टभक्ष्याणि न केवलं खाद्योत्सवे उपस्थितानां जठराग्निं प्राशमयन् अपि च मानसान्यप्यतोषयन् ।

 

कार्यक्रमेsस्मिन् गोवाहव्यकवलयस्य सदस्यैः सह श्रीगजाननमहाराजमठस्य निर्वहणसमितेः पदाधिकारिणः स्थानीयगोमन्तकबान्धवाश्च सश्रद्धं भागमवहन् ।

 

अन्ते वलयाध्यक्षः श्रीवेङ्कटरमणहिरेगङ्गे ऋणनिर्देशनं व्यदधात् ।

 

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *