श्रीसंस्थानाधीश्वरैः ‘सन्मङ्गलम्’ इत्याख्या मङ्गलगोयात्रास्मरणसञ्चिका लोकार्पिता

उपासना

बेङ्गलूरु – मङ्गलगोयात्रायाः सविवरणस्मारकं ‘सन्मङ्गलं’ गिरिनगरस्थे श्रीरामाश्रमे ०१.१२.२०१८ तमे दिनाङ्के लोकार्पितमभवत् ।

 

भारतीयगोवंशसंरक्षणार्थं श्रीसंस्थानाधीश्वरैः आरब्धेषु महत्कार्येषु नाना गोयात्राः प्रमुखतमाः । गोकारणात् समारब्धे प्रथमस्वातन्त्र्यसङ्ग्रामे प्रमुखनायकस्य मङ्गलपाण्डेमहोदयस्य स्मरणार्थं ‘मङ्गलगोयात्रा’ इति नाम्ना गोयात्रा २०१६ नवेम्बरमासादारभ्य २०१७ जनवरिपर्यन्तं राज्ये सर्वत्र सञ्चरितासीत् । इयं गोयात्रा २०१७ जनवरिमासस्य २७ दिनाङ्कतः २९ पर्यन्तं मङ्गलूरुमहानगरे मङ्गलभूमौ महामङ्गलकार्यक्रमद्वारा सुसम्पन्नाभूत् । अस्याः मङ्गलगोयात्रायाः मधुरस्मरणार्थं ‘सन्मङ्गलम्’ इत्याख्या स्मरणसञ्चिका श्रीसंस्थानाधीश्वराणां करकमलाभ्यां लोकार्पिताभवत् ।

 

स्मरणसञ्चिकायाः प्रधानसम्पादकः विद्वान् जगदीशशर्मा, प्ररोचनविभागनिर्वाहकः डा.राजेशपादेकल्लु, मङ्गलगोयात्रायाः महामङ्गलसमितेश्च पदाधिकारिणः अपि सन्दर्भेsस्मिन् समुपस्थिताः अासन् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *