श्रीमठस्य शिष्या सङ्गीतविदुषी श्रीमती वसुधाशर्ममहोदया प्रशस्तिसभाजिता – राष्ट्रिययुवसङ्गीतोत्सवे सम्मानम्

कला साहित्यं च वार्ता

मैसूरु – मैसूरुनगरे नवम्बरमासस्य प्रथमसप्ताहे प्रवृत्ते दिनचतुष्टयात्मके ‘राष्ट्रिययुवसङ्गीतोत्सवः – २०१८’ इति कार्यक्रमे श्रीरामचन्द्रापुरमठस्य शिष्या सङ्गीतविदुषी श्रीमती वसुधाशर्ममहोदया प्रशस्तिसभाजिता ।

 

मैसूरुनगरस्थस्य अवधूतदत्तपीठस्य श्रीगणपतिसच्चिदानन्दाश्रमसंस्कारभारतीसंस्थयोः सहयोगेन नादमण्डपे समायोजिते राष्ट्रिययुवसङ्गीतोत्सवे विविधक्षेत्रेषु समाचरितानुपमसेवाः गण्याः सम्मानेन प्राप्तगौरवाः अभवन् । तेषु सम्मानप्रशस्तिभ्यां विभूषितेषु श्रीमती वसुधाशर्ममहाभागा अन्यतमेति प्रमोदावहो विषयः ।

 

श्रीमती वसुधाशर्ममहोदया मैसूरुमहाराजः यदुवीर ओडेयरमहोदयः, राज्यसर्वकारस्य उन्नतशिक्षणसचिवः जि.टि. देवेगौडमहोदयः इत्यनयोः हस्ताभ्यां प्रशस्तिं स्व्यकरोत् ।

 

कार्यक्रमेsस्मिन् अवधूतदत्तपीठस्य श्रीसच्चिदानन्दस्वामिनः, श्रीदत्तविजयेन्द्रस्वामिनः, इस्रोसंस्थायाः अध्यक्षचरः डा. राधाकृष्णः, संस्कारभारतीसंस्थायाः अध्यक्षः श्रीकृष्णदेवरायः चेत्यादयः प्रमुखाः गण्याः उपस्थिताः आसन् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *