श्रीरामाश्रमे वैभवोपेत-सीतारामकल्याणोत्सवः ।

प्रकटनम्
बेङ्गळूरु :  विष्णुगुप्त-विश्वविद्यापीठ-स्थापन-सङ्कल्पसिद्ध्यर्थं जगद्गुरु-शङ्कराचार्य-श्रीश्रीराघवेश्वर-भारती-महास्वामिभिः प्रचाल्यमान-धारा-रामयण-प्रवचनाङ्गत्वेन जुलै मासस्य १० दिनाङ्के बुधवासरे गिरिनगरस्थ-श्रीरामाश्रमे वैभवोपेत-सीतारामकल्याणोत्सवः आयोजयिष्यते ।
सीतारामकल्याणोत्सवेन समं  बालकाण्डस्य प्रवचनं समाप्तिमेष्यति । स्वामिनः अस्य मासस्य १५ दिनाङ्के अयोध्याकाण्डस्य प्रवचनम् आरभन्ते । १० दिनाङ्के सायं ६ वादने कल्याणोत्सवस्य पूर्वविधीनाम् आचरणपुरस्सरं ७ वादने मुहूर्तवाचनम् एवं मङ्गलाष्टकम् इत्येवम् अनेके धार्मिककार्यकलापाः अयोज्यन्ते । शुभावसरेऽस्मिन् अमृतवर्षिणीसङ्गीत-विद्यालयस्य विदुषी जयलक्ष्मीः एवं तद्विद्यार्थिन्यश्च सीताकल्याणगीतं प्रस्तुवन्ति ।
श्रिरामदेवाय भक्ष्यालङ्कारः,विश्वविद्यापीठसमर्पणम् एवं प्रसादविनियोगश्च भविष्यतीत्येवं हव्यकमहामण्डलस्य अध्यक्षा ईश्वरी भट् बेर्कडवु एवं प्रधानकार्यदर्शी हरिप्रसाद् पेरियापु अवोचन् ।
सर्वास्वपि श्रीमठीय-अङ्गसंस्थासु, हव्यकमण्डलेषु, वलयेषु,एवं गृहेषु च सीतारामकल्याणोत्सवः अविशेषेण आचर्यमाणः ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *