श्रीक्षेत्रहैगुन्दद्वीपे अस्ति दिव्यत्वं, प्रकृतिरम्यत्वं, अनुपमवैशिष्ट्यं च

लेखः

प्रशान्तसुन्दरशरावतीतीरप्रदेशे विश्वजनन्याः श्रीदुर्गाम्बिकायाः मन्दिरं वरीवर्तते । हव्यकब्राह्मणानां मूलस्थानमिति प्रसिद्धेयं प्राचीनयागभूमिः । वर्षाकाले, ग्रीष्मर्तौ च सस्यश्यामलतया शोभतेऽयं द्वीपः । माकिं पञ्चशतोत्तरसहस्रवर्षेभ्यः प्राक् बनवासिसंस्थानस्य कदम्बराजः मयूरवर्मा यज्ञार्थं हैगुन्दमचिनोत् । यागरक्षणार्थं शरावतीनदीं विभज्य यागभूमिं परितः जलप्रवाहं निर्मितवान् । सरस्वतीनदीतीरस्य अहिच्छत्रनगरात् सप्तगोत्रीयविप्रानाहूय यागानुष्ठानार्थं वसतिं प्राकल्पयत् । हव्य-कव्यादीनां सम्यगाचरणेन एते द्विजाः ‘हव्यग, हवीक, हव्यक, हैग’ इत्यादिभिः शब्दैः सम्बोध्यन्ते स्म । इदानीमपि तत्र भग्नयज्ञकुण्डानि, शिलामूर्तयः, इष्टिकाश्च गतवैभवं बोधयन्ति।

 

क्वास्ति हैगुन्दः ?
होन्नावरात् विंशतिकिलोमीटर् दूरे अस्ति अळ्ळङ्कि नामकः ग्रामः । ततः लघुनौकायां विंशतिनिमेषप्रयाणं श्रीदुर्गाम्बिकामन्दिरस्य । इदानीं सेतुः अपि निर्मितमस्ति पादचारिणां सुखाय। पद्मासनस्थायाः, स्मिताननायाः अभयदायिन्याः श्रीदेव्याः विग्रहः अस्माकं न केवलं नयनं हृदयमपि प्रविशति । कालकवलीकृतविषयसंशोधकानां तथा हव्यकेतिहासजिज्ञासूनाम् अत्रास्ति महान् अवसरः ।
अनतिकालात् प्राक् एतन्मन्दिरं नवीकृतमस्ति । शरन्नवरात्रौ उत्सवविशेषेण सुशोभते । दूरदूरप्रदेशेभ्यः भक्तजनाः आगच्छन्ति, मनसः अभीष्टपूर्तये प्रार्थयन्ते च । अस्माकं कुलगुरूणां श्रीमज्जगद्गुरुशङ्कराचार्य श्रीश्रीराघवेश्वरभारतीमहास्वामिनां परमानुग्रहेण एतन्मन्दिरं श्रीरामचन्द्रापुरमठस्य अङ्गसंस्था भूत्वा चकासते इति तु आमोदावहः विषयः ।
समुचितसंस्कारेण सह आधुनिकमाध्यमेन अत्यन्तं सन्तोषमनुभवितुं प्रशस्तं स्थानं हैगुन्दः । निःश्रेयससाधनार्थं, द्वीपोद्गमस्य संशोधनार्थं, मनःक्लेशनिवारणार्थं, मनोरञ्जनार्थं, जगज्जनन्याः परमानुग्रहप्राप्त्यर्थं च सपरिवारं हैगुन्दम् आगच्छन्तु ।

 

सम्पर्कसङ्केतः- के.जि.हेगडे, अध्यक्षः, सेवा समिति: हैगुन्दः
दूरभाषा- ९४८००४२०५६, ०८३८७२६१८५६

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *