मुल्लेरियाहव्यकमण्डलस्य मेलनम्

वार्ता

श्रीसंस्थानाधीश्वराणां मार्गदर्शानम् अनुसृत्य मुल्लेरियाहव्यकमण्डलस्य मासिकमेलनम् श्रावणकेरे श्रीदुर्गापरमेश्वरीमठस्य सभागृहे मण्डलाध्यक्षस्य टि. श्रीकृष्णभट्टमहोदयस्य आध्यक्ष्ये सम्पन्नम् ।

 

तत्र जनवरी १६ तः २० पर्यन्तं श्रीसंस्थानाधीश्वराणां पूर्णानुग्रहेण दिव्योपस्थितौ च सम्पत्स्यमानस्य ब्रह्मकलशोत्सवकार्यक्रमस्य विषये जीर्णोद्धारसमितेः अध्यक्षः राधाकृष्णहेब्बारमहोदयः विवरणम् अददात् । कार्यदर्शी बालसुब्रह्मण्यभट्टः सर्पमले गतमासिकमेलनस्य विषयान् पुनः समस्मारयत् ।
कोशाध्यक्षः सुब्रह्मण्यभट्टः गुब्बलड्कमहोदयः लक्ष्मीलक्षणतन्त्रांशस्य विषयमुक्त्वा आयव्ययविचारं व्यवृण्वत् । वलयस्य पदाधिकारिणः वलयविवरणम् अयच्छन् । विभागप्रधानाः स्वविभागस्य विषयं व्यवृण्वन् ।

 

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *