नाना क्षेत्रेषु समर्जनं विदधद्भ्यः पञ्च छात्रेभ्यः प्रतिभापुरस्कारानुग्रहः

शिक्षणं

 

बेङ्गलूरु – हव्यकमहामण्डलस्य विद्यार्थिवाहिनीविभागद्वारा १६.१२.२०१८ तमे दिनाङ्के गिरिनगरस्य श्रीरामाश्रमे नाना क्षेत्रेषु समर्जनं कृतवन्तः छात्राः श्रीसंस्थानाधीश्वराणां करकमलाभ्यां सानुग्रहप्रतिभापुरस्कारमवाप्नुवन् ।

 

श्रीरामचन्द्रापुरमण्डलान्तर्गतस्य तीर्थराजपुरवलयस्य सौम्यासुरेशकुमारदम्पत्योः यामिनीभट्टाख्या सुपुत्री सुवर्णपदकद्वयेन साकम् आभियान्त्रिकपदवीमवाप्य विशिष्टं समर्जनमकरोत् ।

 

मुल्लेरियामण्डलान्तर्गतस्य एण्मकजेवलयस्य सुमित्रावेङ्कटराजयोः पुत्री मानसा स्नातकोत्तरतन्त्रज्ञानपदव्यां (एं. टेक्) स्वर्णपदकं सम्प्राप्य समर्जनविशेषं व्यदधात् ।

 

उप्पिनङ्गडिमण्डलान्तर्गतकबकवलयस्य उषावेङ्कटेशभट्टयोः सुपुत्रः डा. नवनीतभट्टः आयुर्वेदशास्त्रे स्नातकोत्तरपदवीपरीक्षायां तुरीयस्थानमलभत ।

 

दक्षिणबेङ्गलूरुमण्डलान्तर्गतस्य सोमेश्वरवलयस्य अभिज्ञकश्यपवर्यस्य जाया, मुल्लेरियामण्डलान्तर्गतस्य पल्लत्तड्कवलयस्य अन्नपूर्णेश्वरीचन्द्रशेखरभट्टयोः सुपत्री डा. शारदास्फूर्तिः आयुर्वेदशास्त्रे स्नातकोत्तरपदवीपरीक्षायां प्रथमस्थानं सम्प्राप्य महत्समर्जनमभ्युपागच्छत् ।

 

उप्पिनङ्गडिमण्डलान्तर्गतमाणिवलयस्य मुर्गजे मल्लिकाश्रीरामभट्टयोः सुपुत्रः स्वस्तिकपद्माख्यः पदवीपूर्वच्छात्रः सन् स्वस्य नैकविधविज्ञानानुसन्धानद्वारा विश्वस्य दृष्टिपात्रं सम्भूतः । तेन सद्यः अन्ताराष्ट्रियविज्ञानतन्त्रज्ञानोत्सवे संसाधितं समर्जनमभिलक्ष्य मेसाच्युसेट्तन्त्रज्ञानसंस्था, लिङ्कन् प्रयोगशाला, अन्ताराष्ट्रियान्तरिक्षसङ्घः चेत्येताभिः संस्थाभिः तस्य नाम्ना कस्यचित् लघुग्रहस्य नामकरणं कृतमिति अनुपममिदं समर्जनम् ।

 

विलक्षणप्रतिभाम्, अमोघं सामर्थ्यं च स्वायत्तीकृत्य एकाग्रतां तन्मयतां च स्वभावीकृत्य नैजानुपमसमर्जनद्वारा विद्यार्थिलोकस्य आदर्शभूताः इमे श्रीसंस्थानाधीश्वराणाम् अनुग्रहविशेषभाजः समभवन् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *