श्रीभारतीगुरुकुले नाटकप्रदर्शनं करकौशलप्रशिक्षणञ्च

शिक्षणं

गुरुकुले आर्जितस्य शिक्षणस्य नैजजीवने अनुष्ठानार्थं प्रयतन्ताम् इति कर्नाटकसंस्कृतविश्वविद्यालयस्य सहायकप्राध्यापकः डा. मञ्जुनाथभट्टः गुरुकुलान्तेवासिनः उदबोधयत् । पश्चात् सः स्वात्मजायाः जन्मदिनं निमित्तीकृत्य विशिष्टाम् अंहतिं प्राददात् ।

 

मालूरुवासिनी वसुन्धराशर्ममहोदया छात्राणां कौशलविकासाय गुरुकुले सप्ताहात्मकं करकौशलप्रशिक्षणं व्यदधात् ।

 

प्रतिभानुसभाङ्गत्वेन सुशाखावृन्दस्य विद्यार्थिनः ‘मूर्तिपूजारहस्यम्’ इति नाटकम् अभ्यनयन् । अङ्कुरवृन्दस्य विद्यार्थिन्यः ‘ओनके ओबव्व’ इति नाटकम् अभ्यनटिषुः ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *