श्रीभारतीविद्यालयाय डा.शारदाजयगोविन्दमहाभागया सहस्राधिकरूप्यकमौल्यानां पुस्तकदानम्

वार्ता शिक्षणं

बेङ्गलूरू – अद्यतनीयछात्राणां पठनाभ्यासवर्धनाय हम्पिनगरस्थश्रीभारतीविद्यालयं प्रति गोस्वर्गचातुर्मास्यप्रशस्तिपुरस्कृतया शिक्षणविदुष्या डा. शारदाजयगोविन्दमहाभागया २५००० सहस्ररूप्यकमौल्ययुतानि १६३ पुस्तकानि दानरूपेण प्रदत्तानि ।

 

विद्यालयस्य प्रशासनकूटस्य सदस्या डा. शारदाजयगोविन्दमहाभागा उत्तमपुस्तकानाम् उपायनं दत्वा पुस्तकानामध्ययनेन नैजज्ञानसंवर्धनं सम्पादयन्त्विति छात्रानुद्दिश्य हितोपदेशमगादीत् ।

 

विद्यालयपक्षतः उपप्राचार्यः हरीशकुमारः अस्यै कृतज्ञतापत्रं प्रदाय गौरवार्पणमकरोत् ।

सन्दर्भेऽस्मिन् शारदाजयगोविन्दमहाभागा श्रीभारतीविद्यालये प्रवृत्तायां कार्यशालायां भागमूढ्वा गुणवत्तानिर्वहणम् इत्यस्मिन् विषये शिक्षकवृन्दस्य मार्गदर्शनमकरोत् ।

 

विविधक्रियाकलापानां साहाय्येन गुणोत्कृष्टशिक्षणं कथं परिणामकारिणा विधिना दातुं शक्यते इत्यप्यंशं सा सार्थकप्रयासेन प्राबोधयत् । अस्यां कार्यशालायां विद्यालयस्य सर्वे अध्यापकाः भागं गृहीतवन्तः ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *