वर्धन्त्युत्सववदाचरितम् विद्यालयस्य स्थापनदिनम् ।

शिक्षणं

 

मुजुङ्गावु : मुजुङ्गावुस्थितस्य श्रीभारतीविद्यापीठस्य वर्धन्त्युत्सवः २६.०१.२०१९ तमे दिनाङ्के शनिवासरे संवृत्तः । प्रातः शङ्खानादेन ध्वजारोहणेन च सह कार्यक्रमोऽयमारब्धः ।

पालक-शिक्षकसङ्घस्य अध्यक्षः पुरुषोत्तमाचार्यवर्यः ध्वजारोहणं विधाय भाषणमकरोत् । शासनसमितेः अध्यक्षः एस्.एन्.राव् मुन्निप्पाडिवर्यः हितवचनमवादीत् ।

अपराह्णे द्विवादने समापनसमारोहः प्राचलत् । अस्मिन् कार्यक्रमे अभ्यागतरूपेण आगतः एडनाडुग्रामस्य अधिकारी सत्यनारायणतन्त्रीमहोदयः “कस्यचित् विद्यार्थिनः जन्मदिनं तस्मायेव सन्तोषं प्रददाति। । किन्तु कस्यचित् विद्यालयस्य जन्मदिनं तत्सम्बद्धानां समेषां उत्सववत् आनन्दकारणं भवति । सर्वेषां तनुमनसोः जागरणमेव अत्र वर्धनमिति कथ्यते । यद्यपि पाठ्यक्रमः आङ्ग्लभाषायां वर्तते तथापि संस्कृतं संस्कृतिश्च विद्यालयेऽस्मिन् पाठ्यते । अत्र पठन्तः छात्राः धन्याः । अस्य ग्रामस्य जनाः अपि एतादृशविद्यालयं प्रत्येव स्वापत्यान् प्रेषयितुं चिन्तयन्तु ” इत्यवोचत् ।

अतिथिरूपेण समुपस्थितः गोविन्दभट्ट मुळ्ळङ्कोच्चिवर्यः “संस्कृतस्य संस्कृतेश्च रक्षणस्य पाठः छात्रावस्थायामेव आरम्भणीयः ” इत्यभाषत ।

आगतेषु अभ्यागतेषु अन्यतमः पि.जि.कृष्णभट्ट पुदुकोळिवर्यः ” कश्चिद्विषयः बाल्यादेव अभ्यस्तश्चेत् तस्मिन् प्रावीण्यं निस्संशयं प्राप्तुं शक्यते ” इति छात्रान् उपदिश्य शुभमकामयत ।

सभाकार्यक्रमोत्तरं ताण्डवगणपतिः, भरतनाट्यम्, स्वागतगीतम्, गणतन्त्रदिनमुपलक्ष्य भाषणम्, लघुभिः छात्रैः आङ्ग्लभाषायां स्वपरिचयदानं, योगाभ्यासः, विवेकानन्दस्य बाल्यकथाकथनं, तुळुनृत्यम्, दशम्यां कक्षायां पठन्त्या कृत्तिकया हरिकथाकालक्षेपः इत्येवं विविधाः सांस्कृतिककार्यक्रमाः सम्पन्नाः ।

एल्.के.जि. प्रभृति एस्.एस्.एल्.सि. पर्यन्तं सर्वेषां छात्राणां बहुमुखरूपिण्याः प्रतिभायाः अनावरणं समारम्भेऽस्मिन् जातम् , येन जन्मदातॄणां शिक्षकाणां मनसि सार्थकभावः उदितः, अतिथि-अभ्यागताश्च अमोदन्त । अध्यक्षः विद्यार्थिभिः रचितस्य ‘बेळकु’ इत्याख्यस्य वार्षिकमुखवाणीपुस्तकस्य लोकार्पणमकरोत् । शासनसमितेः कार्यदर्शीः श्यामराज दोड्डमाणिवर्यः प्रास्ताविकमुवाच । मुख्याध्यापिका श्रीमती चित्रासरस्वतीमहाभागा वार्षिकमितिवृत्तं वाचितवती ।

शैक्षिकक्रीडास्पर्धासु जितवद्भ्यः छात्रेभ्यः पुरस्कारः प्रदत्तः । ग्रन्थपालिका श्रीमती विजयासुब्रह्मण्या, वेदमूर्तिः कोणम्मे महादेवभट्टः कोङ्गोटु, गणपतिभट्टः बेळ्ळिगेमने एवं पञ्जिगेद्देमने एतैः प्रतिवर्षं दीयमानः प्रतिभापुरस्कारः अर्हेभ्यः छात्रेभ्यः अस्मिन्नपि वर्षे प्रदत्तः ।

प्रौढशालाविद्यार्थिन्यः प्रार्थनां गीतवत्यः, कु. कृत्तिका कार्यक्रमस्यास्य निरूपणमकरोत् । अन्ते विद्यालयस्य शासकमुख्यः श्यामभट्टदर्भेमार्गः वन्दनार्पणमकरोत्।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *