पेर्ल : पेर्ल-बजकूड्लु-अमृतधारागोशालायाः गोमातुः उदरभरणार्थं मुल्लेरियामण्डलस्य गोकिङ्ककरैः

गौः

अभूतपूर्वरूपेण मासचतुष्टयं यावत् प्रचालिताय ‘गोविगागि मेवु’ इत्याख्यकार्यक्रमाय श्रीरामचन्द्रापुरमठस्य श्री श्री राघवेश्वरभारतीमहास्वामिनः सन्तृप्ताः भाषमाणाः वदन्तः, “बजकूड्लुगोशालायां ‘कासरगोडु गिड्ड’ इति वंशीयाः गावः सन्ति । गात्रेण लघुभूताश्चेदपि ताभिः दीयमानं क्षीरम् अत्युत्कृष्टम् औषधीयगुणयुक्तं वर्तते । मूर्तिः लघ्वी चेदपि कीर्तिः महती’ इति उक्तिवत् तासु ब्रह्माण्डमेव अपह्नुतम् अस्ति । क्षीरधात्र्यै गोमात्रे ग्रासदानम् अतीवसन्तोषस्य कारणम् । तदर्थं बजकूड्लुगोशालायाः ग्राससमर्पणकर्तॄणां गोकिङ्कराणां कार्यं श्लाघनीयम्” इत्यवोचन् । इत्थं निरन्तरं प्रचलत्विति आशीर्वचनानि प्रददुः।

 

श्रावणकेरे श्रीदुर्गापरमेश्वरीमठे ब्रह्मकलशोत्सवस्य समापनसमारोहसन्दर्भे स्वामिनः आशीर्वचनम् अददुः । क्षेत्रस्य तन्त्रिवर्याः वेदमूर्तिः ब्रह्मश्रीः उलियत्तय विष्णुअस्रः , सामाजिकनायकः वेदमूर्तिः ब्रह्मश्रीः रवीशतन्त्री कुण्टारु , पञ्चायत्सदस्या अरुणा आल्वा मड्व , महामण्डलस्य अध्यक्षा ईश्वरी बेर्कडवु , कार्यदर्शी हरिप्रसाद पेरियप्पु , मुल्लेरियामण्डलाध्यक्षः प्रो. अम्मङ्कल्लु रामभट्टः इति उपस्थिताः । शैलजा गोलित्तड्क कार्यक्रमममुं सञ्चालितवती।

 

अस्मिन्नेव सन्दर्भे पुत्तिगे समीपे शुष्कघासस्य यानं प्रति अग्निस्पर्शे जाते नीरं दत्त्वा सहाय्यं कृतवद्भ्यः विनोद आल्वा एवं तद्गृहजनाः , लारीयानस्य चालकः किशोरः , लारीयानस्य मालिकः शिवशङ्करभट्टः पेर्ल एवं तद्गृहजनाः राङ्कवदानेन सह श्रीणां आशीर्भिः सत्कृताः । ‘गोविगे मेवु’ कार्यक्रमाय धनसाहाय्यं कृतवन्तः कारिञ्ज जयप्रकाश रैः , पुणूरु नारायणमूर्तिः , एम्.एम्.महालिङ्गेश्वर एम्ब्रादिरि बेङ्गलूरु इत्येतेभ्यः श्रीगुरवः राङ्कवदानेन सह आशिषं प्रदत्तवन्तः ।

 

शुष्कघासं दत्वा भूमालिकाः सञ्जाताः कावेरीकान शङ्करभट्टः , हरीशः हलेमने , महेशः हलेमने , के.वेङ्कटरमणभट्टः , एन्.सुब्रह्मण्यभट्टः , हमीदः नोलिकुन्नु , अम्बिलङ्कदैवस्थानस्य पदाधिकारिणः , श्रीशङ्करध्यानमन्दिरं पोसडिगुम्पे , हरितघासं दत्तवन्तः शङ्करभट्टः , पुत्तिगेदेवालयस्य ट्रस्टिनः अभिनन्दिताः । श्रीगुरुभ्यः सेवा अर्घ्यस्य समग्रम् इतिवृत्तम् एवं शुष्कघासं सञ्चालकाः डा.मालती प्रकाशः , केशवप्रसादः एडक्कान , सुब्रह्मण्यभट्टः बेजप्पे , रमेशभट्टः वैस.वि. अददुः । मण्डलवलयस्य पदाधिकारिणः गोकिङ्कराः श्रावणकेरे मठस्य ब्रह्मकलशोत्सवसमितेः सदस्याश्च उपस्थिताः आसन् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *