प्रकटनम्

गौः प्रकटनम् वार्ता

भवन्तः गोप्रेमिणो वा ? भवतामायुः १८ तः २५ वर्षाणां मध्ये अस्ति वा ? गोविषयकजनजागरणे आसक्ताः वा ? वाग्मिनः भवितुमिच्छन्ति वा ?
तर्हि कार्यशालेयं भवादृशानां कृते एव भविष्यति । भारतीयगोपरिवारस्य कर्नाटकघटकस्य गोमहती इति विभागेन अयं कार्यक्रमः आयोजयिष्यते । डिसेम्बरमासस्य द्वितीयदिनाङ्कतः कोलारमण्डलस्य मालूरुग्रामस्थिते श्रीराघवेन्द्रगो-आश्रमे गोमहतीविभागेन अयं कार्यागारः सञ्चालयिष्यते । अत्र गोसम्बन्धिविचाराणां जागरणस्य प्रभाविभाषणस्य कलायाः च प्रशिक्षा दीयते । अपि च कार्यशालायामस्यां गोशालायां विहारः, गवां साङ्गत्यं, गव्योद्यमागारस्य सन्दर्शनं, सुग्रासभोजनं सुरक्षितवासव्यवस्थाश्च भविष्यन्ति ।

 

तद्दिने अस्माभिस्साकं गोमहतीविभागस्य राज्याध्यक्षः नित्यानन्दविवेकवंशी उपस्थितः भविष्यति ।

 

आसक्ताः यावच्छीघ्रं स्वनाम पञ्जीकुर्वन्तु ।

 

 

देशः – श्रीराघवेन्द्रगो-आश्रमः, मालूरु, कोलारम् ।
कालः – ०२.१२.२०१८, भानुवासरः ।
प्रातः ०८.०० वादनतः सायं ०५:०० वादनपर्यन्तम् ।

 

प्रथमारक्षणाधारेण ३० जनानामेव अवकाशः ।
सम्पर्कसङ्ख्या – 07892976086 ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *