श्रीक्षेत्रे गोकर्णे महारथोत्सवः

प्रतिवर्षमिव अस्मिन्नपि वर्षे श्रीक्षेत्रे गोकर्णे विराजमानस्य श्रीमहाबलेश्वरदेवस्य श्रीमन्महारथोत्सवकार्यक्रमः महता वैभवेन सुसम्पन्नः। श्रीमज्जगद्गुरुशङ्कराचार्याः श्रीराघवेश्वरभारतीमहास्वामिनः उत्सवमूर्त्यै धार्मिकविध्युक्तक्रमेण सपर्यां समर्प्य रथोत्सवारम्भमकुर्वन् ।   अद्य शान्तिघटाद्यभिषेकः, रथसम्प्रोक्षणं, दण्डबलिः, भूतबलिः, ग्रामबलिः प्रभृतयः धार्मिकविधयः उपाधिमतां नेतृत्वे प्रावर्तन्त।   तदनु अपराह्णे २.३० वादने श्रीमन्महारथोत्सवः सवैभवं सुसम्पन्नः। उत्तरकर्णाटकम्, बेङ्गलूरु, मङ्गलूरु, महाराष्ट्रम्, आन्ध्रप्रदेशः इत्यादिभ्यः राज्येभ्यः समायाताः भक्ताः रथोत्सवे भागमूढ्वा कृतकृत्याः अभवन्। महारथस्य कर्षणसमये भक्तजनानाम् […]

Continue Reading

चौर्यापराधिने शास्तिः

गोकर्णः – षड्वत्सरेभ्यः प्राक् श्रीसंस्थानगोकर्णमहाबलदेवालये प्रवृत्तस्य धनमञ्जूषापहरणप्रकरणस्य आरोपधारिणे चोराय कुमटान्यायालयः शास्तिमादिशत् । २४.०८.२०१२ तमे दिनाङ्के प्रवृत्तं दानधनपेटिकापहरणमभिलक्ष्य विचारणां कर्तुमभ्यर्थ्य श्रीदेवालयस्य पदनिमित्तप्रशासनाधिकारी जि. के. हेगडेमहाभागः आरक्षकस्थानके अभियोगपत्रं पञ्जीकृतवान् आसीत् । प्रकरणस्य पञ्जीकरणं कृत्वा विचारणां विधाय आरक्षकाः प्रतिवेदनं न्यायालयाय समर्पितवन्तः आसन् । प्रकरणस्य न्यायालयीयविचारणावसरे आरोपसत्यापनेन अपराधिने चोराय कुमटान्यायालयः दण्डं शास्तिं च विधाय अन्तिममादेशमदात् ।  

Continue Reading

गोकर्णे महाबलेश्वरदेवालये त्रिपुराख्यदीपोत्सवः – भक्तानामुल्लासः

श्रीसंस्थानाधीश्वराणां दिव्यमार्गदर्शने श्रीक्षेत्रगोकर्णमहाबलेश्वरदेवालये विलम्बसंवत्सरस्य त्रिपुराख्यदीपोत्सवः २२.११.२०१८ तमे दिनाङ्के गुरुवासरे सवैभवं सम्पन्नः ।   लक्षबिल्वार्चनभूतबलिवनभोजनादिषु उत्सवाङ्गकार्येषु बहवः भक्ताः सश्रद्धं भागमवहन् । देवालये लक्षदीपोत्सवः, कोटितीर्थे नौकोत्सवः, अन्ते च रजनीरथोत्सवादयः धार्मिकविधयः सम्पन्नाः । वेदमूर्तिः कृष्णभट्टः षडक्षरी पूजां निरवहत् । श्रीदेवालयं परितः नन्दिमण्डपे गर्भगृहे च आरचितः विशेषपुष्पालङ्कारः सर्वेषां मनांसि समाकर्षत् ।  

Continue Reading