पेर्ल : पेर्ल-बजकूड्लु-अमृतधारागोशालायाः गोमातुः उदरभरणार्थं मुल्लेरियामण्डलस्य गोकिङ्ककरैः

अभूतपूर्वरूपेण मासचतुष्टयं यावत् प्रचालिताय ‘गोविगागि मेवु’ इत्याख्यकार्यक्रमाय श्रीरामचन्द्रापुरमठस्य श्री श्री राघवेश्वरभारतीमहास्वामिनः सन्तृप्ताः भाषमाणाः वदन्तः, “बजकूड्लुगोशालायां ‘कासरगोडु गिड्ड’ इति वंशीयाः गावः सन्ति । गात्रेण लघुभूताश्चेदपि ताभिः दीयमानं क्षीरम् अत्युत्कृष्टम् औषधीयगुणयुक्तं वर्तते । मूर्तिः लघ्वी चेदपि कीर्तिः महती’ इति उक्तिवत् तासु ब्रह्माण्डमेव अपह्नुतम् अस्ति । क्षीरधात्र्यै गोमात्रे ग्रासदानम् अतीवसन्तोषस्य कारणम् । तदर्थं बजकूड्लुगोशालायाः ग्राससमर्पणकर्तॄणां गोकिङ्कराणां कार्यं श्लाघनीयम्” […]

Continue Reading

अर्जितः लाभः गोशालायै प्रदत्तः गोप्रेमिभिः।

कुमटा : अद्य कुमुटापत्तने कोङ्कण एजुकेशन् सोसाईटी संस्थायाः सरस्वतीविद्याकेन्द्रस्य रजतमहोत्सवः प्रवृत्तः।   समारंभेऽस्मिन् कुमुटा हव्यकमण्डलेन इक्षुरसगृहम् संस्थापितमासीत् ।   एतस्मिन् वाणिज्ये प्राप्तं लाभं गोप्रेम्णा गोशालायै प्रदाय धन्याः अमन्यन्त कार्यकर्तारः।

Continue Reading

बजक्कूड्लु गोशालायाः गोभ्यः तृणप्रेषणाय अर्घ्यसेवा

गुम्पेपर्वतस्य श्रीशङ्करध्यानमन्दिरपरिसरे तृणकर्तनकार्यं ०९.१२.२०१८ तमे दिनाङ्के सम्पन्नम् ।   गुम्पेवलयस्य अध्यक्षः अम्मङ्कल्लु रामभट्टः गोमात्रे ग्रोग्रासदानेन कार्यस्य प्रारम्भमकरोत् । कामदुघायोजनायाः कार्यदर्शी डा. वै.वि. कृष्णमूर्तिः ध्वजारोहणम् अकरोत् । सभासदः गुरुं गां च स्तुतवन्तः ।   मुल्लेरियामण्डलस्य विद्यार्थिवाहिनीप्रधानः केशवप्रसादः एडक्कान, वलयस्य कार्यदर्शी बजप्पे सुब्रह्मण्यभट्टः च उपस्थिताः ।   महामण्डलस्य उल्लेखप्रधानः बल्लमूले गोविन्दभट्टः, श्यामभट्टः बेर्कडवु, मुल्लेरियामण्डलस्य कार्यदर्शी बालसुब्रह्मण्यभट्टः सर्पमले, […]

Continue Reading

गव्योत्पन्नापणस्य शुभारम्भ:

  माणि – पेराजेग्रामस्य माणिप्रदेशे वर्तमाने श्रीरामचन्द्रापुरमठे गव्योत्पन्नानां विक्रयणाय ०४.१२.२०१८ तमे दिनाङ्के कुजवासरे गव्योत्पन्नापणः समारब्धः । सेवासमितिसदस्यः मुद्राजे गोविन्दभट्टः आपणम् उद्घाटितवान् । कोशाधिकारी मेक्के गणेशभट्टः आपणस्य प्रथमग्राहकोऽभूत् । सेवासमितेः अध्यक्षः हारकेरे नारायणभट्टः, कार्यदर्शी बङ्गारड्क जनार्दनभट्टः, सदस्यः गिरिशङ्करः कैलारु, कार्यालयकार्यदर्शी शिवप्रसादः, प्रसन्नभट्टः, विघ्नेश्वरभट्टश्च शुभावसरेऽस्मिन् समुपस्थिताः अविद्यन्त ।

Continue Reading

गोस्वर्गे मातरः गोमातरं सम्पूज्य गोग्रासमदुः

भान्कुलि – गवां सहस्रस्य स्वच्छन्दविहारसर्गे गोस्वर्गे सिद्धापुरहव्यकमण्डलस्य मातृविभागपक्षतः मातरः ०२.१२.२०१८ तमे दिनाङ्के श्रीरामदेवस्य सन्निधौ दीपोत्सवं गोपूजां गोग्रासदानं च नीरवीवृतन् । पश्चात् भजनरामायणस्य सामूहिकपठनमकुर्वन् ।

Continue Reading

गोस्वर्गे योगस्य व्यक्तित्वविकासस्य च प्रशिक्षणम् – श्रीरामसेनायाः नेतृत्वे सप्ताहो वर्गः

  भान्कुलि – श्रीरामसेनायाः मार्गदर्शने गोस्वर्गे योगस्य व्यक्तित्वविकासस्य च सप्तदिनात्मकः प्रशिक्षणवर्गः ०२.१२.२०१८ दिनाङ्के समारब्धः । श्रीरामसेनायाः अध्यक्षः प्रमोदमुतालिकवर्यः वर्गमिमं समुद्घाट्य गोस्वर्गे विहारं कृत्वा गोस्वर्गस्य सम्पूर्णं परिचयमवाप्नोत् ।

Continue Reading

उप्पिनपट्टणे सागरनगरे च अमृतपथः

श्रीसंस्थानाधीश्वराणां निर्देशानुसारेण गवामटनपथं त्याज्यमुक्तं प्लास्टिक्-रहितं च कर्तुम् ‘अमृतपथः’ इति कार्यक्रमः समायोजितः ।   सागरनगरस्य पूर्वपश्चिमवलययोः दायित्वे अयं कार्यक्रम: शनिवासरे सागरनगरस्य अग्रहारे समचलत् । तथैव कुमटामण्डलस्य उप्पिनपट्टणवलये अपि ‘अमृतपथः’ सम्पन्नः । बहव: गुरुभक्ता: भागं गृहीतवन्तः ।

Continue Reading

गोग्रासः गोदीक्षा अक्षरदीक्षा च

गुम्पे – परमपूज्यश्रीसंस्थानाधीश्वराणां मार्गदर्शनेन प्रचाल्यमानायाः बजक्कूड्लु गोशालायाः गोभ्यः आहारं कल्पयितुं शाद्वले समुत्पन्नानि हरिततृणानि कर्तयित्वा गोशालां प्रति प्रेषणाय १७.११.२०१८ तमे दिनाङ्के शनिवासरे आयोजितः श्रमदानकार्यक्रमः सम्यक् सम्म्पन्नः । मुल्लेरियामण्डलान्तर्गतस्य गुम्पेवलयस्य पुत्तिगे सुब्रायदेवालयस्य समीपस्थे केदारे संवर्धितानि हरिततृणानि कर्तयित्वा अमृतधारागोशालां प्रति प्रेषितानि । मण्डलस्य विद्यार्थिवाहिनीप्रधानः केशवप्रसादः एडक्कान, गुम्पेहव्यकवलयस्य कार्यदर्शी सुब्रह्मण्यभट्टः बेजप्प, निर्चालुहव्यकवलयस्य शिष्यमाध्यमप्रधानः महेशकृष्णतेजस्वी, लक्ष्मणः हेब्बार श्रवणकेरे, श्रीरामशर्मा एडक्कान […]

Continue Reading

प्रकटनम्

भवन्तः गोप्रेमिणो वा ? भवतामायुः १८ तः २५ वर्षाणां मध्ये अस्ति वा ? गोविषयकजनजागरणे आसक्ताः वा ? वाग्मिनः भवितुमिच्छन्ति वा ? तर्हि कार्यशालेयं भवादृशानां कृते एव भविष्यति । भारतीयगोपरिवारस्य कर्नाटकघटकस्य गोमहती इति विभागेन अयं कार्यक्रमः आयोजयिष्यते । डिसेम्बरमासस्य द्वितीयदिनाङ्कतः कोलारमण्डलस्य मालूरुग्रामस्थिते श्रीराघवेन्द्रगो-आश्रमे गोमहतीविभागेन अयं कार्यागारः सञ्चालयिष्यते । अत्र गोसम्बन्धिविचाराणां जागरणस्य प्रभाविभाषणस्य कलायाः च प्रशिक्षा दीयते […]

Continue Reading

दीपावल्यां महानन्दिगोलोकम् आयान्तु – गोसपर्यां समर्प्य पुण्यं विन्दन्तु

होसनगरम् – गावः अनादिकालात् मानवानाम् अविभाज्यान्यङ्गानि इति परिगण्यन्ते । पुरा गोसङ्ख्यामाधृत्य कस्यचित् पुरुषस्य ऐश्वर्यस्य निर्धारणं भवति स्म । गोमाध्यमेनैव अन्यवस्तूनां विनिमयं वा क्रयविक्रयणं वा भवति स्म । उपायनरूपेणापि धेनवः एव प्रदीयन्ते स्म ।   मनुष्यजीवनं पूर्णतया गोनिष्ठमासीत् इत्युच्यते चेत् न कोऽपि दोषः । यदा माता स्तन्यदानं स्थगयति तदारभ्य आजीवनं धेनुः स्वस्याः अमृततुल्यदुग्धं मनुष्यकुलाय प्रदाय मानवान् […]

Continue Reading