गव्योत्पन्नापणस्य शुभारम्भ:

गौः

 

माणि – पेराजेग्रामस्य माणिप्रदेशे वर्तमाने श्रीरामचन्द्रापुरमठे गव्योत्पन्नानां विक्रयणाय ०४.१२.२०१८ तमे दिनाङ्के कुजवासरे गव्योत्पन्नापणः समारब्धः । सेवासमितिसदस्यः मुद्राजे गोविन्दभट्टः आपणम् उद्घाटितवान् । कोशाधिकारी मेक्के गणेशभट्टः आपणस्य प्रथमग्राहकोऽभूत् ।

सेवासमितेः अध्यक्षः हारकेरे नारायणभट्टः, कार्यदर्शी बङ्गारड्क जनार्दनभट्टः, सदस्यः गिरिशङ्करः कैलारु, कार्यालयकार्यदर्शी शिवप्रसादः, प्रसन्नभट्टः, विघ्नेश्वरभट्टश्च शुभावसरेऽस्मिन् समुपस्थिताः अविद्यन्त ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *