सीताकल्याणवैभोगमे…!

वैभोगेन देदीप्यमानं विवाहमण्डपं, पुरोधसां मन्त्रघोषः, पत्नीभिः सह विराजमनौ दशरथसीरध्वजौ, रामाश्रमे सीतारामपरिणयमहित्सवस्य सुकृतं मनोहरं दृश्यम्| जनाकीर्णत्वात् सभाङ्गणे ईषदपि स्थानावकाशः नासीत्| रामभक्ताः तद्दर्शनेन धन्यतामन्वभूवन्|   सत्यम्, परमपूज्याः श्रीश्रीराघवेश्वरभारतीस्वामिभिः विगतेभ्यः २० दिनेभ्यः धारारामायणनाम्ना रामायणकथनं क्रियमाणमस्तीति विदितमेव| अस्यां मालिकायां अद्य सीतारामयोः परिणयप्रसङ्गः प्रस्तुतः| तदङ्गत्वेन कल्याणोत्सवकार्यक्रमश्च सुसम्पन्नः| प्रतिदिनवद् श्रीश्रीराघवेश्वरभारतीस्वामिनः श्रीरामस्य विवाहोत्तरकथानकमप्यकथयन्|   अमृतवर्षिणीसङ्गीतपाठशालायाः शिक्षकाः छात्राश्च कल्याणगीतमगासिषुः| मङ्गलाचरणादूर्ध्वं भक्ताः विष्णुगुप्तविश्वविद्यापीठोदयार्थं धनद्रव्याणि […]

Continue Reading

हव्यकमहासभापरतः निःशुल्कं सार्वजनिकं स्वास्थ्यपरीक्षणशिबिरम्

बेङ्गळूरु – श्री-अखिलहव्यकमहासभया प्रसिद्धवैद्यानां सकाशात् निःशुल्कं स्वास्थ्यपरीक्षणं चिकित्सा च सार्वजनिकसौकर्याय जुलै 14 दिनाङ्के प्रातः 10 वादनतः अपराह्णे 2 वादनपर्यन्तं मल्लेश्वरस्थे हव्यकभवने आयोजयिष्यते|   डा.रविशङ्कर्, डा.दिवाकर भट्, डा.वि.एस्.भट्, डा.अरुण् अडक्कोळि, डा.बालमुरळि, डा.एस्.आर् हेगडे, तथा हव्यकमहासभायाः अध्यक्षः प्रसिद्धवैद्यः डा.गिरिधर कजे इत्यादीनां प्रसिद्धवैद्यनां समूहः तत्र भवति| नेत्ररोगः, दन्तपीडनं, चर्मव्याधयः, स्त्रीरोगः, अर्बुदः, वयोधिक्यात् संभाव्यमानः सन्धिरोगः, कटिवेदनं, शिरोरोगः, इत्यादीनां सर्वविधानामपि […]

Continue Reading

हव्यकज्योतिषः होन्नावरे प्रवेशः

डिसेम्बर् २८: दिनाङ्कतः दिनत्रयं यावत् बेङ्गलूरुनगरस्य अरमनेक्षेत्रे प्रचाल्यमानं द्वितीयं विश्वहव्यकसम्मेलनं हव्यकमहासभायाः अमृतमहोत्सवः च विभिन्नरीत्या उद्घाट्यते।   कर्णाटके हव्यकानां मूलस्थानभूते हैगुन्ददेवलप्रदेशे प्रज्वालिता ज्योतिः रथयात्रायां भान्कुलीगोस्वर्गमार्गेण बेङ्गळूरुमहानगरस्य अरमने अङ्गणे आनीयते। तेन पवित्रेण ज्योतिषा सम्मेलनं समुद्घाट्यते।   डिसेम्बर् २६ दिनाङ्के हैगुन्दतः प्रस्थिता ज्योतिः होन्नावरं प्राप्नोत्। तत्र होन्नावरहव्यकमणडलस्य सदस्याः रथं स्वागतीकृत्य अग्रिमयात्रायै शुभाशंसनमकुर्वन्।  

Continue Reading

ऎतिहासिके कार्यक्रमेऽस्मिन् भागिनः भवेम ; हव्यकमहामण्डलस्य निमन्त्रणम्।।

हव्यकमहासभया निश्चितः अमृतमहोत्सवः द्वितीयविश्वहव्यकसम्मेलनं च दिसेम्बर् मासस्य २८, २९, ३० तमदिनेषु बेङ्गलूरुमहानगरस्य अरमनेक्रीडाङ्गण परिसरे भविष्यति । ऎतिहासिकः अयं कार्यक्रमः समस्तहव्यकसमाजस्य कार्यक्रमः अतः अस्माभिः सर्वैः सक्रियैः भागमूढव्यम् इति अनेन विधिना हव्यकमहामण्डलेन निमन्त्रणं दीयते ।   बृहदुत्सवेऽस्मिन्, अस्माकं मूलजीविकायाः कृषेः समग्रप्रदर्शिनी, शाकपाकानाम् उत्सवः, यज्ञवेदिकाः मण्डलानि च, भारतीगोवंशप्रदर्शनं, समाजस्य वास्तवसमस्याः तासां परिहारचिन्तनं, समाजस्य गरिमाणां प्रस्तुतिः, विचारमथनस्य सङ्गोष्ठ्यः इत्यदयः […]

Continue Reading

श्रीरामाश्रमे सपरिवारश्रीरामचन्द्रदेवप्रतिष्ठापनावार्षिकोत्सवः सम्पन्नः

बेङ्गलूरु – श्रीरामचन्द्रापुरमठस्य शाखामठे गिरिनगरस्थे श्रीरामाश्रमे सपरिवारस्य श्रीरामचन्द्रप्रभो: प्रतिष्ठापनावार्षिकोत्सवः श्रद्धाभक्तिवैभवेन सुसम्पन्न: । श्रीसंस्थानाधीश्वराणां दिव्योपस्थितौ तेषां मार्गदर्शने च विलम्बसंवत्सरस्य आश्वयुजकृष्णषष्ठ्यां सप्तम्यां च (३०.१०.२०१८, ३१.१०.२०१८) नैके धार्मिककार्यक्रमाः समनुष्ठिताः ।   मङ्गलवासरे श्रीगुरुप्रार्थनेन सह समारब्धेषु धार्मिककार्यक्रमेषु श्रीगणपतिपूजादेवनान्दीपुण्याहवाचनकौतुकबन्धनध्वजारोहणबलिकर्माणि च समाचरितानि । सायङ्काले रङ्गपूजाशिबिकोत्सवाष्टावधानसेवाः सम्पन्नाः । शताधिकाभक्ता: भगवतः शिबिकोत्सवे भागमूढ्वा कृतार्थाः अभवन् ।   अपि च सांस्कृतिककार्यक्रमाणामङ्गत्वेन यक्षर्षिहोसतोटमञ्जुनाथभागवतरविरचितस्य `गोमये वसते […]

Continue Reading