ऎतिहासिके कार्यक्रमेऽस्मिन् भागिनः भवेम ; हव्यकमहामण्डलस्य निमन्त्रणम्।।

समारम्भः

हव्यकमहासभया निश्चितः अमृतमहोत्सवः द्वितीयविश्वहव्यकसम्मेलनं च दिसेम्बर् मासस्य २८, २९, ३० तमदिनेषु बेङ्गलूरुमहानगरस्य अरमनेक्रीडाङ्गण परिसरे भविष्यति । ऎतिहासिकः अयं कार्यक्रमः समस्तहव्यकसमाजस्य कार्यक्रमः अतः अस्माभिः सर्वैः सक्रियैः भागमूढव्यम् इति अनेन विधिना हव्यकमहामण्डलेन निमन्त्रणं दीयते ।

 

बृहदुत्सवेऽस्मिन्, अस्माकं मूलजीविकायाः कृषेः समग्रप्रदर्शिनी, शाकपाकानाम् उत्सवः, यज्ञवेदिकाः मण्डलानि च, भारतीगोवंशप्रदर्शनं, समाजस्य वास्तवसमस्याः तासां परिहारचिन्तनं, समाजस्य गरिमाणां प्रस्तुतिः, विचारमथनस्य सङ्गोष्ठ्यः इत्यदयः कार्यक्रमाः भविष्यन्ति । २८तमे दिने प्रभाते ९:००वादने अस्मत् संस्थानाधीश्वराः सन्निध्यं स्वीकृत्य महोत्सवस्य शुभारम्भं करिष्यन्ति । पश्चात् धर्मसभाकलापाः, सामूहिकगीतापठनं सञ्चालयिष्यन्ते । ३०तमे दिने कार्यक्रमशिखरस्य कलशमिव परमपूज्यानां रामकथाप्रस्तुतिः तु अस्मदहॊभाग्यम्। ७५कलाविद्भिः सहयोगेन श्रीसंस्थानाधीश्वराः यज्ञधारिणी इति नाम्ना रामकथां प्रस्तुवन्ति ।

 

नूतनेतिहासनिर्माणस्य अस्मिन् महोत्सवे समग्रहव्यकसमाजः कुटुम्बैकत्वेन स्वशक्तिसामर्थ्यं लोकमुखाय दर्शयेत् । अतः गोगर्णमण्डलव्याप्तेः प्रत्येकं मण्डलस्य वलयस्य घटकस्य च पदाधिकारिणः, प्रत्येकं शिष्यं च स्वकुटुम्बस्य कार्यक्रमोऽयमिति धिया सक्रियो भागं गृह्णीयात् इति महामण्डस्य आशयः प्रीत्याग्रहः च ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *