सीताकल्याणवैभोगमे…!

Uncategorized समारम्भः

वैभोगेन देदीप्यमानं विवाहमण्डपं, पुरोधसां मन्त्रघोषः, पत्नीभिः सह विराजमनौ दशरथसीरध्वजौ, रामाश्रमे सीतारामपरिणयमहित्सवस्य सुकृतं मनोहरं दृश्यम्| जनाकीर्णत्वात् सभाङ्गणे ईषदपि स्थानावकाशः नासीत्| रामभक्ताः तद्दर्शनेन धन्यतामन्वभूवन्|

 

सत्यम्, परमपूज्याः श्रीश्रीराघवेश्वरभारतीस्वामिभिः विगतेभ्यः २० दिनेभ्यः धारारामायणनाम्ना रामायणकथनं क्रियमाणमस्तीति विदितमेव| अस्यां मालिकायां अद्य सीतारामयोः परिणयप्रसङ्गः प्रस्तुतः| तदङ्गत्वेन कल्याणोत्सवकार्यक्रमश्च सुसम्पन्नः| प्रतिदिनवद् श्रीश्रीराघवेश्वरभारतीस्वामिनः श्रीरामस्य विवाहोत्तरकथानकमप्यकथयन्|

 

अमृतवर्षिणीसङ्गीतपाठशालायाः शिक्षकाः छात्राश्च कल्याणगीतमगासिषुः| मङ्गलाचरणादूर्ध्वं भक्ताः विष्णुगुप्तविश्वविद्यापीठोदयार्थं धनद्रव्याणि समर्पणमकुर्वन्| विवाहमहोत्सवनिमित्तं मधुरप्रसादवितरणमपि समित्या कृतम्|

 

धारारामायणस्य प्रायोजकत्वेन उमामहेश्वरहेगडे गोट्णकोड्ळुदम्पती, सहप्रायोजकत्वेन कजेहित्तलु गोविन्दभट्टदम्पती, जनकदम्पतित्वेन मुसवळ्ळि रमेशहेगडेदम्पती, दशरथदम्पतित्वेन हरिप्रसाद् पेरियप्पुदम्पती च असेविषत|

 

होन्नावरप्रदेशे अपि आचरणम् : होन्नावरमण्डलस्य गेरुसोप्पवलयस्य मेलिनमण्णिगे विष्णुमूर्तिदेवालये धारारामायणस्य सीताकल्याणोत्सवाङ्गत्वेन विशेषकार्यक्रमः कृतः| शोभारामचन्द्रभट्टाः विष्णुगुप्तविश्वविद्यालयस्य परिचयं प्राख्यन्|

 

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *