अतिवृष्टिसन्त्रस्तेभ्यः कोडगुजनेभ्यः साहाय्यधनप्रदानम्

  मुल्लेरिय – अतिवृष्टिसन्त्रस्तानां कोडगुजनानां साह्यमाचरितुं गुत्तिगारुवलयेन १०,२५० रूप्यकाणां सङ्ग्रहः कृतः आसीत् । कोडगुहव्यकवलयस्य मासिकसभायाम् अयं धनराशिः दिवङ्गतस्य गणपतिभट्टस्य सुताय शशाङ्काय, कोल्चरु वेङ्कटरमणभट्टाय च श्रीसंस्थानाधीश्वराणाम् अनुग्रहरूपेण प्रादायि ।

Continue Reading

कुमटाहव्यकमण्डलपक्षतः छात्रेभ्यः धनादेशपत्रप्रदानम्

कुमटा – कुमटाहव्यकमण्डलस्य पक्षतः प्रेप्सुभ्यः छात्रेभ्यः विद्यासाहाय्ययोजनायाः धनादेशपत्रप्रदानस्य कार्यक्रमः सम्पन्नः । केक्कारुग्रामे श्रीरघूत्तममठे प्रवृत्ते कार्यक्रमेऽस्मिन् श्रीगणेशहेगडे महोदयः प्रस्तावनायां श्रीपीठस्य शिष्यवात्सल्यं भक्तवात्सल्यं समाजहितकार्याणां च विषये अवदत् । पश्चात् मण्डलाध्यक्षः श्रीमञ्जुनाथः सुवर्णगद्दे स्वभाषणे विद्यासाहाय्ययोजना `समाजः भवद्भिः सह विद्यते’ इति विचारस्य सङ्केतः इत्यवोचत् । अनेन सह छात्राणां भ्रमालोकः, हव्यकसमाजस्य सङ्ख्यायाः आतङ्कजनकस्थितिः, समाजे हव्यकानां स्थितिः, तस्याः परिवर्तनाय श्रीपीठस्य उपक्रमाः, […]

Continue Reading