सीताकल्याणवैभोगमे…!

वैभोगेन देदीप्यमानं विवाहमण्डपं, पुरोधसां मन्त्रघोषः, पत्नीभिः सह विराजमनौ दशरथसीरध्वजौ, रामाश्रमे सीतारामपरिणयमहित्सवस्य सुकृतं मनोहरं दृश्यम्| जनाकीर्णत्वात् सभाङ्गणे ईषदपि स्थानावकाशः नासीत्| रामभक्ताः तद्दर्शनेन धन्यतामन्वभूवन्|   सत्यम्, परमपूज्याः श्रीश्रीराघवेश्वरभारतीस्वामिभिः विगतेभ्यः २० दिनेभ्यः धारारामायणनाम्ना रामायणकथनं क्रियमाणमस्तीति विदितमेव| अस्यां मालिकायां अद्य सीतारामयोः परिणयप्रसङ्गः प्रस्तुतः| तदङ्गत्वेन कल्याणोत्सवकार्यक्रमश्च सुसम्पन्नः| प्रतिदिनवद् श्रीश्रीराघवेश्वरभारतीस्वामिनः श्रीरामस्य विवाहोत्तरकथानकमप्यकथयन्|   अमृतवर्षिणीसङ्गीतपाठशालायाः शिक्षकाः छात्राश्च कल्याणगीतमगासिषुः| मङ्गलाचरणादूर्ध्वं भक्ताः विष्णुगुप्तविश्वविद्यापीठोदयार्थं धनद्रव्याणि […]

Continue Reading

बसरीकट्टेस्थे ‘श्रीसद्गुरुविद्यानिकेतने’ ‘भारतीयसंस्कृतिशिक्षणशिबिरम्’

चिक्कमगळूरु- चिक्कमगळूरुमण्डलस्य कोप्पोपमण्डलस्य बसरीकट्टेस्थस्य ‘श्रीसद्गुरुविद्यानिकेतनस्य’ ब्राह्मणच्छात्रावासे भारतीयसंस्कृतेः परिचायकं शिक्षणशिबिरमायोजितम् । ११.०૪.२०१९ दिनाङ्कतः १८.०૪.२०१९ दिनाङ्कपर्यन्तं अष्टदिनात्मकमिदं शिबिरं भविता । १० तः २૪ वर्षीयाणां त्रिमतस्थब्राह्मणयुवक-युवतीनामेव शिबिरे अवसरः वर्तते। वेदमन्त्राः, स्तोत्राणि, धर्मः, संस्कृतिः, आचारः, आहारः, संस्काराः, स्त्रीशिक्षणम् , भारतदेशस्य संस्कृतेः वैभवम् इत्यादीनाम् अनेकसद्विचाराणां शिक्षणं प्रदास्यते ।   आसक्ताः ०१.०૪.२०१९ दिनाङ्कात् पूर्वमधः प्रदत्तचरदूरवाणीसङ्ख्यानां सम्पर्कं कृत्वा मौखिकरूपेण प‍ञ्जीकरणं / नामाङ्कनं […]

Continue Reading

अर्जितः लाभः गोशालायै प्रदत्तः गोप्रेमिभिः।

कुमटा : अद्य कुमुटापत्तने कोङ्कण एजुकेशन् सोसाईटी संस्थायाः सरस्वतीविद्याकेन्द्रस्य रजतमहोत्सवः प्रवृत्तः।   समारंभेऽस्मिन् कुमुटा हव्यकमण्डलेन इक्षुरसगृहम् संस्थापितमासीत् ।   एतस्मिन् वाणिज्ये प्राप्तं लाभं गोप्रेम्णा गोशालायै प्रदाय धन्याः अमन्यन्त कार्यकर्तारः।

Continue Reading