बसरीकट्टेस्थे ‘श्रीसद्गुरुविद्यानिकेतने’ ‘भारतीयसंस्कृतिशिक्षणशिबिरम्’

Uncategorized शिक्षणं

चिक्कमगळूरु- चिक्कमगळूरुमण्डलस्य कोप्पोपमण्डलस्य बसरीकट्टेस्थस्य ‘श्रीसद्गुरुविद्यानिकेतनस्य’ ब्राह्मणच्छात्रावासे भारतीयसंस्कृतेः परिचायकं शिक्षणशिबिरमायोजितम् ।
११.०૪.२०१९ दिनाङ्कतः १८.०૪.२०१९ दिनाङ्कपर्यन्तं अष्टदिनात्मकमिदं शिबिरं भविता ।
१० तः २૪ वर्षीयाणां त्रिमतस्थब्राह्मणयुवक-युवतीनामेव शिबिरे अवसरः वर्तते।
वेदमन्त्राः, स्तोत्राणि, धर्मः, संस्कृतिः, आचारः, आहारः, संस्काराः, स्त्रीशिक्षणम् , भारतदेशस्य संस्कृतेः वैभवम् इत्यादीनाम् अनेकसद्विचाराणां शिक्षणं प्रदास्यते ।

 

आसक्ताः ०१.०૪.२०१९ दिनाङ्कात् पूर्वमधः प्रदत्तचरदूरवाणीसङ्ख्यानां सम्पर्कं कृत्वा मौखिकरूपेण प‍ञ्जीकरणं / नामाङ्कनं कुर्युः । तदनन्तरं शिबिरार्थिनः नाम, वयः, पोषकाणां नाम, स्वगृहस्य सङ्केतः इत्यादीनां विवरणं प्रदत्तचरदूरवाणीसङ्ख्यायामेव WhatsApp / SMS द्वारा प्रेषणीयम् ।
पञ्जीकृतवतां /नामाङ्कनं कृतवतां प्राथमिकताधारेण ५० जनानामेव शिबिरप्रवेशः भविष्यति ।
मैसूरुस्थ ‘भारतीयोगधाम्नः’ मुख्यस्थाः, देशस्य श्रेष्ठाः विद्वांसः डा. के. एल्. शङ्करनारायण जोयिस् महोदयाः, तेषां गणश्च शिबिरमेतच्चालयिष्यन्ति ।

 

सर्वे अवसरस्य सदुपयोगं प्राप्नुवन्तु इति प्रार्थना ।

सम्पर्कसंख्या :-
9448964366
9449759241
08265 248564

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *