ज्ञानदानमेव सर्वमठीयं प्रमुखं कर्तव्यम् – श्रीेसंस्थानम् ।

माणि: ज्ञानदानमेव सर्वेषां मठानां प्रमुखं कर्तव्यम्। तदभावे महान् लोपः आचरितो भवति। विंशतिषु वर्षेषु जनानां मनस्थितिः पर्यवर्तत। इतोऽपि विलम्बम् अकृत्वा वयम् अस्यामेव कालमितौ विश्वविद्यापीठ-संस्थापन-सङ्कल्पम् अकार्ष्म इत्येवं श्रीरामचन्द्रापुरमठस्य जगद्गुरवः शङ्कराचार्य-श्रीश्रीराघवेश्वर-भारती-महास्वामिनः अवादिषुः।   माणि,पेराजे, एवं श्रीरामचन्द्रापुरमठेषु महाक्षेत्रेषु प्रचालितायां विष्णुगुप्त-विश्वविद्यापीठ-मार्गदर्शन-सभायां स्वामिनः स्व-आशीर्वचोभिः सभासदः अन्वगृह्णन् ।   श्रीशङ्कराचार्याः ज्ञानरूपेण बलेन देशं पर्यवर्तिषत। सर्वोत्कृष्ट-आर्षविद्याकेन्द्राणां संस्थानपनापूर्वकं आर्षविद्याप्रदानपुरस्सरं छात्रेषु धर्मनिष्ठा-देशनिष्ठा-संस्कृतिनिष्ठा-सहित-परिपूर्ण-व्यक्तित्व-साधनपूर्वकं समाजस्य परिवर्तनमेव विष्णुगुप्त-विद्यापीठस्य मुख्यम् […]

Continue Reading

माणिक्यभारती – स्वप्रयत्नः देवकृपा च-परमपूज्यश्रीमज्जगद्गुरुशङ्कराचार्यश्रीश्रीराघवेश्वरभारतीमहास्वामिनां प्रवचनामृतम्

एकदा अक्बरबीरबल्लमहोदयौ अरण्ये अटन्तौ आस्ताम् । सुदूरे निष्क्रान्तेऽपि एकोऽपि ग्रामः आलयो वा न लब्धः । उभावपि पिपासाबुभुक्षाभ्यां पीडितौ । तदा बीरबल्लमहोदयः कस्यचन वृक्षस्याधः उपविश्य `राम ! राम !’ इति रामस्य नामजपम् आरब्धवान् ।   तदा अक्बरमहोदयः `जपाचरणेन भोजनं न लभ्यते’ उत्युक्त्वा अग्रे प्रयातः।   एवमनतिदूरे सङ्क्रान्ते तेन एकः ग्रामः प्राप्तः । तस्य ग्रामस्य कस्यचित् गृहस्य […]

Continue Reading

माणिक्यभारती – सत्सङ्गः किमर्थम्? परमपूज्यश्रीमज्जगद्गुरुशङ्कराचार्यश्रीश्रीराघवेश्वरभारतीमहास्वामिनां प्रवचनामृतम्

एकदा त्रिलोकसञ्चारी नारदः नारायणमेवम् अपृच्छत् `सत्सङ्गस्य प्रयोजनं किम् ?’ इति । तदा श्रीहरिः `भूलोकं गत्वा इदानीमेव जातं कीटं पृच्छतु’ इत्यवोचत् ।   नारदेन तथा कृते सति सः कीटः तत्क्षणमेव मरणं प्राप्तवान् । नारदः पुनरागत्य श्रीहरिं `कथमेतत् ?’ इति प्रश्नम् अकरोत् । तदा श्रीहरिः `सम्प्रति एव जनिं प्राप्तम् एकं खगं पश्यतु’ इति वक्ति । पुनः नारदेन […]

Continue Reading

माणिक्यभारती – मुहुर्मठस्य महाबलः

श्रीक्षेत्रगोकर्णस्य पुनरुत्थानार्थं सर्वेभ्यः श्रीसंस्थानाधीश्वराणाम् आह्वानम् महाबलेश्वरस्य महासमरे इतः स्थिताः ! ततः स्थिताः ! परितः स्थिताः ! सर्वे समायान्तु । वयं सर्वे सम्भूय प्रपञ्चस्यैव आदर्शनिदर्शनरूपेण श्रीक्षेत्रं निर्मामः । महाबलस्य महाप्रसादं सर्वजीवेभ्यः प्रापयामः । – परमपूज्यश्रीमज्जगद्गुरुशङ्कराचार्यश्रीराघवेश्वरभारतीमहास्वामिनः, श्रीसंस्थानं गोकर्णः, श्रीरामचन्द्रापुरमठः ।  

Continue Reading