हव्यकज्योतिषः होन्नावरे प्रवेशः

समारम्भः

डिसेम्बर् २८: दिनाङ्कतः दिनत्रयं यावत् बेङ्गलूरुनगरस्य अरमनेक्षेत्रे प्रचाल्यमानं द्वितीयं विश्वहव्यकसम्मेलनं हव्यकमहासभायाः अमृतमहोत्सवः च विभिन्नरीत्या उद्घाट्यते।

 

कर्णाटके हव्यकानां मूलस्थानभूते हैगुन्ददेवलप्रदेशे प्रज्वालिता ज्योतिः रथयात्रायां भान्कुलीगोस्वर्गमार्गेण बेङ्गळूरुमहानगरस्य अरमने अङ्गणे आनीयते। तेन पवित्रेण ज्योतिषा सम्मेलनं समुद्घाट्यते।

 

डिसेम्बर् २६ दिनाङ्के हैगुन्दतः प्रस्थिता ज्योतिः होन्नावरं प्राप्नोत्। तत्र होन्नावरहव्यकमणडलस्य सदस्याः रथं स्वागतीकृत्य अग्रिमयात्रायै शुभाशंसनमकुर्वन्।

 

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *