अप्सरकोण्डमठस्य विषये सभा

वार्ता

अप्सरकोण्ड – श्रीरामचन्द्रापुरमठस्य शाखामठे अप्सरकोण्डमठे प्रचलिष्यमाणस्य प्रतिष्ठापनामहोत्सवस्य सिद्धतायै महत्त्वपूर्णा सभा सुसम्पन्ना । कार्यदर्शी के. जि. हेगडेमहोदयः कार्यक्रमस्य सज्जताविषये भाविनः कालस्य आवश्यकतानां विषये च विवरणमदात् ।

 

अध्यक्षः सुब्रायहेगडेमहाभागः सर्वेभ्यः स्वागतं व्याहरत् । गौरवाध्यक्षः सुब्रायभट्टः, पि. एस्. भट्टः, होन्नावरकुमटामण्डलयोः अध्यक्षौ, ग्रामण्यः, पदाधिकारिणः, मातृप्रधानाः अन्ये प्रमुखाः च अस्यां सभायां सोत्साहं भागमवहन् ।

 

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *