गोग्रासः गोदीक्षा अक्षरदीक्षा च

गौः वार्ता

गुम्पे – परमपूज्यश्रीसंस्थानाधीश्वराणां मार्गदर्शनेन प्रचाल्यमानायाः बजक्कूड्लु गोशालायाः गोभ्यः आहारं कल्पयितुं शाद्वले समुत्पन्नानि हरिततृणानि कर्तयित्वा गोशालां प्रति प्रेषणाय १७.११.२०१८ तमे दिनाङ्के शनिवासरे आयोजितः श्रमदानकार्यक्रमः सम्यक् सम्म्पन्नः ।

मुल्लेरियामण्डलान्तर्गतस्य गुम्पेवलयस्य पुत्तिगे सुब्रायदेवालयस्य समीपस्थे केदारे संवर्धितानि हरिततृणानि कर्तयित्वा अमृतधारागोशालां प्रति प्रेषितानि । मण्डलस्य विद्यार्थिवाहिनीप्रधानः केशवप्रसादः एडक्कान, गुम्पेहव्यकवलयस्य कार्यदर्शी सुब्रह्मण्यभट्टः बेजप्प, निर्चालुहव्यकवलयस्य शिष्यमाध्यमप्रधानः महेशकृष्णतेजस्वी, लक्ष्मणः हेब्बार श्रवणकेरे, श्रीरामशर्मा एडक्कान च कैङ्कर्यमिदं निरवहन् । ग्रामणीः बि.एल्. शम्भुहेब्बारमहोदयः तृणकर्तनयन्त्रं प्रदत्तवान् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *