श्रीरामाश्रमे सङ्गीतसेवा

कला साहित्यं च वार्ता

बेङ्गलूरु – फलपुष्पादिभिः यथा भगवन्तं सेवन्ते तथैव सङ्गीतकलाकारः श्रीरघुनन्दनबेर्कडवुमहोदयः श्रीकरार्चितदेवतानां सान्निध्ये स्वगानसुधया सेवां समार्पयत् ।

गुरुवासरे (०१-११-२०१८) गिरिनगरस्थे श्रीरामाश्रमे सः महोदयः कर्णाटकशास्त्रीयसङ्गीतकार्यक्रमं देवसन्निधौ समर्पितवान् । नाट-रागादारभ्य बहुदारी, देवगान्धारी, रीतिगौल, दर्बार, पन्तुवराली, कानड, सिन्धुभैरवी, दुर्गा, मिश्रपहाडी, मोहन, कल्याणी, सौराष्ट्ररागान् च गीत्वा श्रीरामस्य सन्निधौ नैजां कलासेवामकरोत् ।

श्रीसंस्थानाधीश्वराणाम् आशीर्वादेन सूचनया च श्रीरघुनन्दनमहोदयः एतादृशसङ्गीतसेवामाध्यमेन सेवां कृत्वा भगवतः कृपाभाक् अभूत् । तस्य सङ्गीतकार्यक्रमे सहायकवृन्दे अनिरुद्धभट्टः, पिटीलुवादने अच्युत राव् च आस्ताम् । कार्यक्रमे काञ्चन रोहिणी सुब्बरत्नं, काञ्चन श्रुतिरञ्जनी च उपस्थिते आस्ताम् ।

 

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *