प्राये अभिप्राये च आदर्शप्रायेभ्यः पक्वपुम्भ्यः परिपक्वं कर्म सन्ध्यामङ्गलम् – श्रीसंस्थानाधीश्वराणां विशेषाशिषः

उपासना वार्ता

बेङ्गलूरु – निजजीवनस्य सन्ध्यासमये विद्यमानानां ज्येष्ठजीविनां शेषायुः मङ्गलमयं भूयादति सदाशिषा बेङ्गलूरुनगरस्य गिरिनगरस्थे श्रीरामाश्रमे २१.११.२०१८ तमे दिनाङ्के बुधवासरे सन्ध्यामङ्गलमिति अनुपमं कर्म सम्पन्नम् ।

 

हव्यकमहामण्डलस्य नेतृत्वे सञ्चालितेsस्मिन् सन्ध्यामङ्गले ६०, ७०, ८० च वत्सरानुत्तीर्णवन्तौ ७० दम्पती भागभाजौ भूत्वा श्रीसंस्थानाधीश्वराणां श्रीपाणिश्रीपर्णाभ्यां विशेषदिव्याशिषः प्राप्नुताम् ।

 

सन्ध्यामङ्गलकार्यक्रमस्य धर्मसभायाः दिव्यसान्निध्यं निरूह्य श्रीसंस्थानाधीश्वराः `सुचिरं सञ्जीव्य समाजं सन्दीप्य वयसः प्राये मनसः अभिप्राये च पक्वजीविनः सन्तः समाजस्य आदर्शप्रायाः पुण्यचेतनाः इमे ज्येष्ठाः । अतस्तादृग्भ्यः पक्वजीविभ्यः परिपक्वमिदं कर्म सन्ध्यामङ्गलं श्रीमठेनैव समायोजितम्’ इत्यभिप्रायमाविरकुर्वन् ।

 

अपि च `जीवनस्य सन्ध्याकाले वर्तमानानां ज्येष्ठजीविनां समस्तामङ्गलनिवृत्तिपूर्वकं शेषायुः विशेषमङ्गलमयं भूयादिति हेतोरयं कार्यक्रमः समायोजितः इत्ययं विचारः नितान्तं तोषदः । सन्ध्यामङ्गलेऽस्मिन् भागभाजौ समाजस्य ज्यायांसौ दम्पती श्रीकरार्चितदेवताः श्रीगुरुपरम्परा च सर्वदा अनुगृह्यासुः’ इति ते आशिषः अवोचन् ।

सन्ध्यामङ्गलकार्यक्रमस्य अङ्गत्वेन हुलिमने मञ्जुनाथभट्टस्य नेतृत्वे उग्ररथभीमरथसहस्रचन्द्रदर्शनशान्तयः यथाविधि सम्पन्नाः ।

श्रीमठीयपद्धतिमनुसृत्य समारब्धायां धर्मसभायां प्रकृतकार्यक्रमस्य सञ्चालकः हव्यकमहामण्डलस्य वैदिकविभागस्य सहप्रधानः डा. राघवेन्द्रभट्टः क्यादगि महोदयः प्रास्ताविकवचांसि प्रकट्यकरोत् । तदनु हव्यकमहामण्डलस्य अध्यक्षा ईश्वरी बेर्कडवु महाभागा कार्यक्रममभिलक्ष्य नैजाभिप्रायान् विन्यमयत । हव्यकमहामण्डलस्य प्रधानकार्यदर्शी हरिप्रसादः पेरियप्पु महाभागः सभाकार्यक्रमं निरवहत् । कार्यक्रमेऽस्मिन् पञ्चशताधिकाः शिष्यभक्ताः भागभाजः अभूवन्निति विशेषः ।

 

श्रीरामाश्रमसेवासमितिसदस्यानां दक्षिणोत्तरबेङ्गलूरुमण्डलयोः पदाधिकारिणां च अपूर्वसहकारेण सुचारु सम्पन्नमिदं कर्म सर्वेषां प्रशंसापात्रमभूत् ।

 

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *