हव्यकमहासभापरतः निःशुल्कं सार्वजनिकं स्वास्थ्यपरीक्षणशिबिरम्

समारम्भः

बेङ्गळूरु – श्री-अखिलहव्यकमहासभया प्रसिद्धवैद्यानां सकाशात् निःशुल्कं स्वास्थ्यपरीक्षणं चिकित्सा च सार्वजनिकसौकर्याय जुलै 14 दिनाङ्के प्रातः 10 वादनतः अपराह्णे 2 वादनपर्यन्तं मल्लेश्वरस्थे हव्यकभवने आयोजयिष्यते|

 

डा.रविशङ्कर्, डा.दिवाकर भट्, डा.वि.एस्.भट्, डा.अरुण् अडक्कोळि, डा.बालमुरळि, डा.एस्.आर् हेगडे, तथा हव्यकमहासभायाः अध्यक्षः प्रसिद्धवैद्यः डा.गिरिधर कजे इत्यादीनां प्रसिद्धवैद्यनां समूहः तत्र भवति| नेत्ररोगः, दन्तपीडनं, चर्मव्याधयः, स्त्रीरोगः, अर्बुदः, वयोधिक्यात् संभाव्यमानः सन्धिरोगः, कटिवेदनं, शिरोरोगः, इत्यादीनां सर्वविधानामपि रोगाणाम् आलोपति-होमियोपति-आयुर्वेदवैद्यपद्धत्या रोगिपरीक्षणं तथा चिकित्सा निःशुल्कं समुपलभ्यते तत्र|

 

समाजस्य सर्वेषां हितार्थं हव्यकमहासभायाः वैद्यकीयस्य तथा आरोग्यविभागस्य च समित्या निःशुल्कं सार्वजनिकं वैद्यकीयशिबिरं आयोज्यमानं वर्तते| ‘कर्नाटक क्यान्सर् सोसैटी’, ‘सुनेत्रवैद्यालयः’, ‘श्रीभगवान् महावीर जैनवैद्यालयः’ च सहयोगं कृतवन्तः| सार्वजनिकाः शिबिरस्यास्य प्रयोजनं प्राप्तुमर्हन्ति|

 

अधिकं ज्ञातुं महासभायाः वैद्यकीयस्य तथा आरोग्यसमित्याः सञ्चालकं डा.श्रीपाद हेगडेमहोदयं (९४४८०१८६५४) तथा महासभायाः कार्यालयं ( ०८०-२३३४८१९३) सम्पर्कं कर्तुमर्हन्ति|

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *