एकदा त्रिलोकसञ्चारी नारदः नारायणमेवम् अपृच्छत् `सत्सङ्गस्य प्रयोजनं किम् ?’ इति । तदा श्रीहरिः `भूलोकं गत्वा इदानीमेव जातं कीटं पृच्छतु’ इत्यवोचत् ।
नारदेन तथा कृते सति सः कीटः तत्क्षणमेव मरणं प्राप्तवान् । नारदः पुनरागत्य श्रीहरिं `कथमेतत् ?’ इति प्रश्नम् अकरोत् । तदा श्रीहरिः `सम्प्रति एव जनिं प्राप्तम् एकं खगं पश्यतु’ इति वक्ति । पुनः नारदेन तथा कृते सति सपद्येव सः खगोऽपि मृतः अभूत् ।
तदनु श्रीहरेः आज्ञामनुसरन् नारदः सद्योजातं गोवत्सं पश्यति । सोऽपि मृत्युवशमगात् । तदा चिन्तामग्नं नारदं प्रति श्रीहरिः `इदमिदानीं प्राप्तजन्मानं राजपुत्रम् ईक्षताम्’ इति आदिशत् । तदा चिन्ताकुलः सः नारदः `राजपुत्रोऽपि यदि मरणं यास्यति तर्हि मम का गतिः ? क्रुद्धः राजा मां नैव मुञ्चति’ इति अचिन्तयत् ।
तदा `तथा न सम्भवति’ इति श्रीहरेः अभयवाक्येन अपगतभयः नारदः राजपुत्रम् अपश्यत् । तदा राजपुत्रः `किमर्थं चिन्तितः भवान् ? पूर्वजन्मसु अहं कीटः खगः गोवत्सश्च आसम् । भवतः दर्शनमात्रेण पापमुक्तः राजकुले जन्म प्राप्तवान्’ इति अगादीत् ।
तदा नारदः `सत्सङ्गेन निकृष्टजन्म निवार्यते तथा च उत्तमजन्मभाग्यं लभ्यते’ इति यथार्थम् अवागच्छत् ।
अनुवादः – विद्वान् कृष्णानन्दशर्मा ।