कुमटाहव्यकमण्डलपक्षतः छात्रेभ्यः धनादेशपत्रप्रदानम्

आर्तत्राणम्

कुमटा – कुमटाहव्यकमण्डलस्य पक्षतः प्रेप्सुभ्यः छात्रेभ्यः विद्यासाहाय्ययोजनायाः धनादेशपत्रप्रदानस्य कार्यक्रमः सम्पन्नः ।

केक्कारुग्रामे श्रीरघूत्तममठे प्रवृत्ते कार्यक्रमेऽस्मिन् श्रीगणेशहेगडे महोदयः प्रस्तावनायां श्रीपीठस्य शिष्यवात्सल्यं भक्तवात्सल्यं समाजहितकार्याणां च विषये अवदत् ।

पश्चात् मण्डलाध्यक्षः श्रीमञ्जुनाथः सुवर्णगद्दे स्वभाषणे विद्यासाहाय्ययोजना `समाजः भवद्भिः सह विद्यते’ इति विचारस्य सङ्केतः इत्यवोचत् ।

अनेन सह छात्राणां भ्रमालोकः, हव्यकसमाजस्य सङ्ख्यायाः आतङ्कजनकस्थितिः, समाजे हव्यकानां स्थितिः, तस्याः परिवर्तनाय श्रीपीठस्य उपक्रमाः, तेषां फलानि इत्यादीन् विषयानभिलक्ष्य अकथयत् । प्रत्येकमपि छात्रः श्रीपीठस्य सेवां कुर्यात् । प्रत्येकस्मिन् संवत्सरे गुरुदर्शनं प्राप्नुयात् । तेन सम्पद्यमानः धन्यभावः सर्वैः समर्जनीयः इति अवोचत् । शिष्यत्वं नास्माकं चयनम् अपि तु तद्धि जन्मना एव लभ्यते । अतः वयं सर्वे श्रीमठस्य सेवया धन्याः भवेम । सर्वेषां भाविजीवनं स्वर्णमयं भवतु इति आशिषः अवादीत् ।

मण्डलकोशाध्यक्षस्य के. आर्. हेगडे महोदयस्य समायोजनेन तत्रोपस्थिताः ज्येष्ठाः छात्रेभ्यः धनादेशपत्राणि प्रदत्तवन्तः । शान्तिमन्त्रपठनेन कार्यक्रमः समाप्तिमगच्छत् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *