गोस्वर्गे गव्योत्पन्ननिर्माणस्य प्रशिक्षणशिबिरम् ।

गौः वार्ता शिक्षणं

उत्तरकन्नडमण्डलस्य सिद्धापुरजनपदे सहस्राधिकगवां स्वच्छन्दसाम्राज्ये सप्तदेवतानां सान्निध्ये गोस्वर्गे कर्नाटकराज्यस्य गोपरिवारस्य आश्रये नवम्बरमासस्य २३, २४, २५ दिनाङ्केषु गव्योत्पन्नानां निर्माणार्थं प्रशिक्षणशिबिरम् आयोजितं वर्तते ।

 

शिबिरेऽस्मिन् गवां महत्त्वमभिलक्ष्य बोधनेन सह गोमूत्रगोमयादीनि समुपयुज्य आरोग्यं कृषिः प्रकृतिसमृद्धिः इत्यादिषु क्षेत्रेषु अनुप्रयोगयोग्यानां गव्योत्पन्नानां निर्माणविषये प्रत्यक्षविधिना प्रशिक्षणं प्रदीयते । त्रिदिवसीये शिबिरे शिबिरार्थिनां कृते सामूहिकावासभोजनादिव्यवस्थाः प्रकल्प्यन्ते ।

 

इच्छुकाः नवम्बरमासस्य विंशतिदिनाङ्कात् प्राक् निश्चितशुल्कं प्रदाय स्वनामपञ्जीकरणं कुर्युः । विस्तरविवरणाय नामपञ्जीकरणाय च अधः उल्लिखितैः जनैः सह सम्पर्कं साधयन्तु । केवलं ५० जनेभ्यः अवसरः विद्यते ।

 

डा. रविः – ९४८३९४२७७६
महेशः चट्नल्लि – ९४४९५९५२७७
मधुगोमतिः -९४४९५९५२७८
भारतीयगोपरिवारः
कर्नाटकराज्यम्

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *