हे कृषीवलाः ! भवतां कृषिभूमेः सत्त्वं वर्धयितुं समागतः स्वर्गसारः अयं कृषकाणां कृते गोफलन्यासेन सज्जीकृतः परिपूर्णः जैविकः सारकरीषः

गौः वार्ता

अस्माकं सनातनसाहित्येषु `गोमये वर्तते लक्ष्मीः’ इति निरुक्तं दृश्यते । गोमाता तु यावज्जीवं मानवस्य आश्रयदात्री । गोमयं गोमूत्रं च तस्याः प्रधानयोगदानम् । अस्माकं पूर्वजाः गोमूत्रं गङ्गा इति गोमयं च लक्ष्मीः इति परिगणयन्ति स्म । एतादृशम् आरोग्यकरं पूजनीयं च गोजन्यवस्तु अस्माकं भूमेरन्तः गच्छति चेदेव वयम् आरोग्यपूर्णम् आहारं लभामहे ।

एवं हि विषमयैः रासायनिकैः अस्माकम् आहारं विमोच्य आरोग्यपूर्णम् आहारं प्राप्तुम् आहारदात्र्याः भूमेरपि आहारं करीषं रासायनिकरहितं कर्तुं नूतनः सारकरीषः उत्पाद्यमानः वर्तते गोमयस्य गोमूत्रस्य च उपयोगेन ।

देशीयगोसङ्कुलसंरक्षणस्य महान्दोलने बद्धादराणां परमपूज्यानां श्रीसंस्थानाधीश्वराणां मार्गदर्शनेन प्रतिष्ठापिता गोफलन्यासः इत्येषा पञ्जीकृता संस्था एतादृशमहत्कार्यार्थम् उपक्रामति ।

श्रीमठस्य गोशालासु लभ्यमानान् गोमयादीन् गव्यत्याज्यान् उपयुज्य निम्बपत्राणि एरण्डपिण्डादीनि च सम्मिश्र्य अधिकसूक्ष्माणुप्रक्रियायाः वर्धनार्थं जीवामृतजलमपि संयोज्य निर्मितः विशिष्टः `स्वर्गसारः’ इति सारकरीषः कृषकेभ्यः परिचीयते ।

अयं स्वर्गसारः देशीयगवां गोमयगोमूत्रादित्याज्यावलम्बी मौल्यसंवर्धितः प्रकृतिसहजः सारकरीषः वर्तते । देशीयगवां गोमयगोमूत्रादीनि जीवामृतजलं निम्बबीजचूर्णः एरण्डपिण्डः इत्यादीनां वस्तूनां सम्मिश्रणेन अयं `स्वर्गसारः’ इत्याख्यः सारकरीषः समुत्पाद्यते ।

विविधधान्यानां सस्यानां नाना कृष्युत्पन्नानां च परिसंवर्धनाय इमं स्वर्गसारम् उपयोक्तुं निर्दिष्टानां परिमाणानां विवरणम् एवमस्ति ।

• नारिकेरकृष्यर्थम् – १० के. जि.
• पूगकृष्यर्थम् – २ के. जि.
• कदलीकृष्यर्थम् – २ के. जि.
• व्रीहिकृष्यर्थम् – (१एक्रे) – १००० के. जि.
• मरीचकृष्यर्थम् – १/२ के. जि.
• कोक्को – १ के. जि.
• शाकाः – (१एक्रे) – १००० के. जि.
• पुष्पवृक्षकाः – १ के. जि.
• फलवृक्षकाः – २ के. जि.
• काफीवृक्षकाः – १ के. जि.
• जतुवृक्षकाः – २ के. जि.

विषरसायनरहिते अस्मिन् सारकरीषे विद्यमानाः पोषकांशाः एवं सन्ति ।

1. Nitrogen (N) 1.9
2. Phosphates (P) 0.7
3. Potash (K) 1.9
4. Carbon (C) 24.3
5. C/N ratio 13
6. pH 8.1
7. Moisture 30.0

एवं देशीयगोमयेन संसिद्धस्य करीषस्य उपयोगेन कृषिभूमिः समृद्धा भवति । स्वर्गसारस्य अनुप्रयोगेन नैके लाभाः सन्ति कृषकाणां कृषिभूमेश्च । तेषां लाभानाम् आवलिः एवमस्ति ।

• भूमेः मेदिनीत्वं वत्सराद्वत्सरं संवर्धते ।
• कृष्युत्पन्नानां प्रमाणं स्वादुता गुणोत्कर्षता च बहुगुणितं भवति ।
• विषरसायनराहित्येन दुष्परिणाममुक्तानि कृष्युत्पन्नानि प्राप्तुं शक्यन्ते ।
• भूमेः सहजसारस्य निर्मापकाणां किञ्चुलुकानां सङ्ख्या समेधते ।
• अयं मालिन्यरहितः परिसरपूरकश्च सारकरीषः भूमेः सहजसारं न नाशयति ।
• सारकरीषस्य अस्य उत्पादने उपयुज्यमानं जीवामृतजलं भूमौ सूक्ष्माणुक्रमिणां सङ्ख्यां लक्षोपलक्षप्रमाणेन संवर्धयति ।

अस्य स्वर्गसारस्य मूल्यमपि न तावदधिकं परं सामान्यजनैः क्रेयमेव वर्तते ।

• १ के. जि. – २५ रूप्यकाणि ।
• २ के. जि. – ५० रूप्यकाणि ।
• ५ के. जि. – १०० रूप्यकाणि ।
• ४० के. जि. – ६०० रूप्यकाणि ।

`स्वर्गसारं’ क्रेतुम् अधिकविषयविनिमयार्थं च आसक्ताः ९४४९५९५२३८ इति सम्पर्कसङ्ख्यया अथवा गोफलन्यासः (पं), ३७८, द्वितीयतलः, द्वितीयः उपमार्गः, गिरिनगरं, बेङ्गलूरु – ५६००८५ इति सङ्केतेन वा व्यवहर्तुक्षमाः ।

अथ को विलम्बः ? अस्माकं पोषयित्र्यै भूमात्रे वयं स्वर्गसारं भोजयामः ।
भोः कृषीवलाः ! गोमातुः स्वर्गसारं समुपयुज्य भूमातुः स्वास्थ्यं संरक्षत ।

अनुवादः – श्रीकान्तः हेगडे अन्त्रवल्ली ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *