सुल्यवलये वेदवाहिनी – वेदपारायणं वेदश्रवणं च सम्पन्नम्

उपासना वार्ता

सुल्य – सुल्यहव्यकवलयस्य वैदिक-संस्कारविभाग: ११२ तमं ११३ तमं च वेदवाहिनीकार्यक्रमं नवेम्बर् मासस्य द्वितीयदिने अन्वतिष्ठत् ।

 

११२ तमः कार्यक्रमः केशवय्यभट्टस्य गृहे अभवत् । तदा यजमान: सकुटुम्बं वेदपठनम् अशृणोत् । घटकग्रामणीः विष्णुकिरणभट्टः उपस्थित: आसीत् ।

 

तस्मिन्नेव दिने नीरबिदरे वेङ्कटरमणभट्टस्य गृहे सम्पन्ने ११३ तमे कार्यक्रमे यजमान: सकुटुम्बं वेदानुसन्धानम् अकरोत् । नीरबिदरे भक्तवत्सलमहोदयः धन्यभावं प्राकटयत् ।

 

एत्तकल्लु नारायणभट्टः, विश्वकीर्तिजोयिसमहोदयः, अरम्बूरु कृष्णभट्टः, वेङ्कटेशशास्त्री चेत्येते पुरोधसः वेदपारायणमकुर्वन् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *