अमृतपथः – अभियानं समचालि – सर्वधारीसोमश्वरविद्यारण्यवलयेषु प्लास्टिक्-अवकरमुक्तपथः

वार्ता

बेङ्गलूरु – गवां सञ्चारमार्गः प्लास्टिक्-अवकरमुक्तः भवेदित्युद्देश्येन श्रीसंस्थानाधीश्वराणां सङ्कल्पानुसारम् ‘अमृतपथः’ इत्यभियानं सर्वधारी-सोमेश्वर-विद्यारण्यवलयेषु समचालि ।

 

भानुवासरे प्रातः ७ वादनतः ९ वादनपर्यन्तं मार्गमुभयतः त्याज्यप्लास्टिक्-अवकराः न क्षेपणीयाः इति जनानां बोधनपुरस्सरं प्लास्टिक्-अवकरापकरणपुरस्सरं कार्यक्रमोsयं सफलो जातः । त्रिंशदधिकाः कार्यकर्तारः अभियानेsस्मिन् भागग्राहिणः आसन् ।

 

बि.बि.एं.पि. सदस्यः सोमशेखरः अभियाने भागमूढ्वा कार्यकर्तृगणेन साकं संवादमकरोत् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *