गोकर्णे महाबलेश्वरदेवालये त्रिपुराख्यदीपोत्सवः – भक्तानामुल्लासः

श्रीगोकर्णः

श्रीसंस्थानाधीश्वराणां दिव्यमार्गदर्शने श्रीक्षेत्रगोकर्णमहाबलेश्वरदेवालये विलम्बसंवत्सरस्य त्रिपुराख्यदीपोत्सवः २२.११.२०१८ तमे दिनाङ्के गुरुवासरे सवैभवं सम्पन्नः ।

 

लक्षबिल्वार्चनभूतबलिवनभोजनादिषु उत्सवाङ्गकार्येषु बहवः भक्ताः सश्रद्धं भागमवहन् ।
देवालये लक्षदीपोत्सवः, कोटितीर्थे नौकोत्सवः, अन्ते च रजनीरथोत्सवादयः धार्मिकविधयः सम्पन्नाः । वेदमूर्तिः कृष्णभट्टः षडक्षरी पूजां निरवहत् । श्रीदेवालयं परितः नन्दिमण्डपे गर्भगृहे च आरचितः विशेषपुष्पालङ्कारः सर्वेषां मनांसि समाकर्षत् ।

 

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *