मठाद्वैताभयेन पाश्चात्यमाया व्यपोह्यताम् – श्रीसंस्थानाधीश्वराः अद्यतनशङ्कराचार्याः श्रीसंस्थानाधीश्वराः अपि आद्यशङ्कराचार्याः एव – विद्वान् उमाकान्तभट्टवर्यः

उपासना

बेङ्गलूरु – पूर्वाचार्याः श्रीराघवेन्द्रभारतीमहास्वामिनः विद्याप्रीताः । वेदवेदाङ्गेषु अतिशयासक्तिशीलाः आसन् । अतः प्रतिवत्सरं तेषामाराधनायाः पुण्यावसरे देशस्यास्य कस्मैचन श्रेष्ठविदुषे श्रीराघवेन्द्रभारतीपाण्डित्यपुरस्कारप्रदानेन तेषां संस्मरणकार्यं श्रीमठेन निरन्तरं निरन्तरायं प्रचलदस्तीति श्रीसंस्थानाधीश्वराः अवदन् ।

 

गिरिनगरस्थे श्रीरामाश्रमे मार्गशीर्षशुक्लाष्टम्यां शनिवासरे, १५.१२.२०१८ तमे दिनाङ्के सञ्चालितस्य ब्रह्मैक्यजगद्गुरुशङ्कराचार्यश्रीराघवेन्द्रभारतीमहास्वामिनाम् आराधनामहोत्सवस्य धर्मसभायाः दिव्यसान्निध्यं निरूह्य प्रथितविदुषे केरेकै उमाकान्तभट्टवर्याय श्रीराघवेन्द्रभारतीपाण्डित्यपुरस्कारं प्रदाय श्रीसंस्थानाधीश्वराः इदमवोचन् यत् – “विद्वान् उमाकान्तभट्टः मैसूरुनगरस्थस्य विख्यातविद्वद्वरेण्यस्य रामभद्राचार्यस्य शिष्यत्वमेत्य सम्पूर्णशास्त्राध्ययनम् अकरोत् । अस्माभिरपि संन्यासाश्रमस्वीकारानन्तरं रामभद्राचार्यस्य निकटे शास्त्राध्ययनमकारि । उमाकान्तभट्टवर्यः कीर्तिशेषरामभद्राचार्येण अशेषविद्यां करतलामलकीकृत्य समाजे महान्तं गरिमानमधुना धत्ते । अतः इतःपरम् इतोऽप्यतिशायिनी समाजसेवा अनेन महाभागेन भूयात्” इति ।

हव्यकमहामण्डलेन सज्जीकृतं `शिष्यबन्धः’ इति चरदूरवाणीतन्त्रांशं लोकमुखाय समुद्घाट्य `चरदूरवाणि तु मायाद्वारम् । अद्यत्वे चरदूरवाणीद्वारा पाश्चात्यसंस्कृतिः अस्मान् आवृणोति । मायानिवारकम् अद्वैततत्त्वम् । अतः तादृशाद्वैतानुष्ठाननिरतस्य श्रीमठस्य प्रभावात् मठाद्वैताभयेन पाश्चात्यमाया व्यपोह्यताम्’ इति ते आशासिषत ।

अद्यापि आद्यशङ्कराचार्याः श्रीसंस्थानाधीश्वराः

 

श्रीराघवेन्द्रभारतीपाण्डित्यपुरस्कारं स्वीकृत्य विद्वान् उमाकान्तभट्टवर्यः – “श्रीशङ्कराचार्यः भारतीयसंस्कृतौ विवेकपथम् ऐदम्प्राथम्येन प्रादर्शयत् । अविस्रम्भमये विश्वे सति विस्रम्भमयं जगन्निरमात् आदिजगद्गुरुः श्रीशङ्कराचार्यः । संसारसागरे रामान्वेषणाय द्वारम् अध्वा च गुरुरेव । अतः गुरुद्वारमेव हरिद्वारम् । गुरुतत्त्वमिदम् इतरत्र नान्वेषणीयम् । श्रीसंस्थानाधीश्वराणाम् उदवसितम् इदं गिरिनगरमेव गुरुनगरं हरिनगरञ्च” इत्यभिप्रायम् आविरकरोत् ।

 

परमपूजनीयाः श्रीराघवेश्वरभारतीमहास्वामिनः अद्यापि आद्यशङ्कराचार्याः एव । वैचारिकक्षेत्रे विराजमानाः भयोत्पादकाः बुद्धिजीविनः श्रीशङ्कराचार्याणां श्रीसंस्थानाधीश्वराणां मध्ये कालदेशाद्युपाधिभेदान् निमित्तीकृत्य आक्षेपं कुर्युः । किन्तु तस्य समाधानं वर्तते । शाङ्करपरम्परायां समागताः एते अपि आदिशङ्कराचार्याः एव । पीठे विराजमानाः स्वामिनः पीठाधारभूताः भवन्ति । पीठाधिपतीनाम् अभावे तत् पीठमिति न कथ्यते । पीठे विराजमानः न व्यक्तिविशेषः किन्तु सः शक्तिविशेषः इति मन्तव्यम् । अतः एव श्रीरामचन्द्रापुरमठपरम्परायाः `अविच्छिन्नगुरुपरम्पराप्राप्तविख्यातव्याख्यानसिंहासनाधीश्वराः’ इत्याद्याः यथार्थाः बिरुदावल्यः नितरां शोभन्ते । परम्परयां यःकोऽपि वा भवतु सः शङ्कराचार्यः एव इति विज्ञेयम् । अतः पीठस्य विषये पीठाधारभूतानां पीठाधिपतीनां विषये च तुच्छभावना हीनभाषा च न कदाचिदपि कथञ्चिदपि प्रयोक्तव्या । तादृशः अमार्गभ्रमः अस्माकं हीनसंस्कारं प्रदर्शयति’ इति विद्वान् उमाकान्तभट्टवर्यः नैजविचारसरणिं समार्थयत् ।

 

सभायाः प्राक् प्रातः श्रीमठीयपद्धतिमनुसृत्य तीर्थराजपूजापुरस्सरं धार्मिकविधिविधानानाम् अनुष्ठानेन पूर्वाचार्याणाम् आराधनाकार्यं सुसम्पन्नम् । पश्चात् धर्मसभायामादौ डा. राघवेन्द्रभट्टः क्यादगि, पूर्वाचार्यान् अधिकृत्य विशिष्टे कुसुममालिकावृत्ते निजलिखितं `प्रणतिपञ्चकम्’ इति विद्वत्पूर्णं पद्यं वाचयित्वा काव्यनमनं विधाय तत्पद्यं श्रीसंस्थानाधीश्वराणां चरणयोः समार्पयत् ।

 

पूर्वाचार्याणामवधौ ये सेवाकर्तारः आसन् ते, अपि च भक्ताः पूर्वाचार्याणां समाधिसान्निध्ये विशेषपूजां विधाय श्रीपरम्परानुग्रहस्य भागभाजः अभवन् । हव्यकमहामण्डलेन सज्जीकृतस्य `शिष्यबन्धः’ इति तन्त्रांशस्य लोकार्पणं श्रीमठस्य सम्मुखसर्वाधिकारी तिम्मप्पय्यमडियालवर्यः अकरोत् । श्रीमठस्य मुख्यकार्यनिर्वहणाधिकारी के. जि. भट्टवर्यः, हव्यकमहामण्डलस्य अध्यक्षा ईश्वरी बेर्कडवुमहाभागा, विद्वान् मधुसूदनः अडिगमहोदयः, मोहनः भास्करः हेगडे, रमेशः हेगडे कोरमङ्गलं, वादिराजः सामगः, आर्. एस्. हेगडेमहाभागः चेत्यादयः प्रमुखाः, विविधप्रदेशेभ्यः समागताः अपारशिष्यभक्ताः च समुपस्थिताः आसन्।

 

Leave a Reply

Your email address will not be published. Required fields are marked *