मुम्बईहव्यकवलयेन समायोजि रक्तदानशिबिरम्

वार्ता

मुम्बई – श्रीरामचन्द्रापुरमठस्य मुम्बई-डोम्बिवलिहव्यकवलयद्वयेन २५.११.२०१८ तमे दिनाङ्के समायोजिते रक्तदानशिबिरे ६१ रक्तदानिनः परजीवरक्षणाय स्वरुधिरदानं ससन्तोषमकुर्वन् ।

 

महानगरस्यास्य सन्ताक्रूज इति प्रदेशस्थे श्रीपेजावरमठे जे. जे. पथपेधि, थाणे इत्याख्यरक्तनिधिसंस्थायाः सहयोगेन समायोजितेsस्मिन् शिबिरे शताधिकाः जनाः भागमगृह्णन् ।

 

लेखन्युपायनम् – शिबिरेsस्मिन् रक्तदानिभ्यः रक्तनिधिसंस्थायाः कर्मचारिभ्यश्च मुम्बईवलयाध्यक्षः कृष्णभट्टगुड्डेबालुमहोदयः उपायनरूपेण लेखनीं प्रदाय कार्तज्ञ्यं न्यवेदयत् ।

 

सन्दर्भेsस्मिन् एतादृशमहत्कार्यस्य संयोजकेष्वन्यतमः यू.टि. कृष्णमूर्तिमहोदयः ‘१४तममिदं शिबिरं सर्वसहकारेण श्रीसंस्थानाधीश्वराणामाशीर्वादेन सफलं सुसम्पन्नम्’ इत्यवादीत् । डा. एन्.जि. भट्टः, उषाभट्टः, ईश्वरीभट्टः, कूलूरु के.एस्.भट्टः, रमणभट्टः, नारायणभट्टः चेत्यादयः सक्रियं भागग्रहणमकुर्वन् । प्रकाशभट्टमहोदयः स्वपक्षतः उपायनलेखनीनां व्यवस्थामकल्पयत् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *