विशिष्टाः प्रतिभाः उद्दिश्य पुरस्कारानुग्रहः।

वार्ता

बेङ्ग्लूरु: होन्नावर-अभिजनं, चदुरङ्गक्रीडायां विशिष्टप्रतिभावन्तं, समर्थ-जगदीश-राव्-नामकम् उद्दिश्य गुरुवासरे श्रीरामचन्द्रापुरमठस्य जगद्गुरवः, श्री-श्री-राघवेश्वरभारती-महास्वामिनः पुरस्कृतवन्तः।

 

अमेरिका-देशस्थ-न्यूजेर्सि-प्रदेशे आयोजितायां विश्वस्तरीय-कनीयसां चदुरङ्गक्रीडायांसप्तम-आवृत्तौ ५.५ अङ्कानां प्राप्तिपुरस्सरम् अङ्गवैकल्ये सत्यपि प्रथमं स्थानं समर्थः समाप्नोत्।

 

होन्नावरस्थ एस् डि एम् कलाशालायां B.Com द्वीतीये वर्शे अधीयमानः अमेरिका देशे इदं द्वितीयवारं स्थानमलभत।अयं चदुरङ्गमार्गदर्शकानाम् अजित् एम् पि महोदयानां शिष्यः अस्ति। इतः पूर्वं दि॥ वि आर् शास्त्रि होन्नावर, प्रसाद हेग्डे सिर्सि, विनय् कुमार हिरेमठ सिर्सि, ज्योति प्रकासं मधुरै, श्रीनिधि श्रीपति चेन्नै, स्वराज् पालीट् जार्खण्ड्, कपिल् लोहान् पूना इत्येतेषाम् अन्तिके मार्गदर्शनम् अलभत।

 

एषः होन्नावर-मण्डलान्तर्गत-होन्नावरवलयस्य श्री जगदीश् राव् एवं श्रीमती विनुता भट् इत्यनयोः सुपुत्रः।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *