गोस्वर्गे बालानां कलरवः – गोभिस्सह सङ्गत्या परवशमनस्काः बालाः

शिक्षणं

सिद्धापुरम् – गवां प्रत्यक्षस्वर्गभूते गोस्वर्गे भानुवासरे गोभिः साकं बालानां करङ्गणः एव संसृष्टः आसीत् ।

 

सिद्धापुरस्य प्रशान्तिविद्यालयस्य बालाः गोस्वर्गं समागत्य गवां विषये ज्ञानं सम्प्राप्य तासां कायान् सम्मृश्य गोग्रासं च दत्वा तत्रैव क्रीडनेन सन्तोषमप्यनुभूतवन्तः ।

 

शिक्षकै: कैश्चन पालकैश्च सह गोस्वर्गं समागताः बालाः एकत्रैव बह्वीनां गवां बृहत्समूहं दृष्ट्वा आनन्दतुन्दिलाः सञ्जाताः । पश्चात् गोस्वर्गे एव माध्याह्निकं प्रसादभोजनमपि स्वीकृत्य आसायं तत्रैव क्रीडित्वा अन्ते गवां विरहमनिच्छता मनसा स्वगृहं गतवन्तः । इत्थं प्रत्यहम् इदं गोस्वर्गधाम वीक्षकाणां गोप्रेमिणां च प्रीत्याश्रयस्थानं सम्भूयमानं वर्तते इति विचारः महाप्रमोदमेव आवहते ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *