मण्डलस्तरीयप्रतिभाकारञ्जिस्पर्धासु प्रगतिविद्यालयस्य प्रतिभाशालिछात्राणां महद्यशः

शिक्षणं

मूरूरु – अङ्कोलाप्रदेशे सञ्चालितायां मण्डलस्तरीयायां प्रतिभाकारञ्जिनाम्न्यां प्रतिभोत्सस्पर्धाशृङ्खलायां मूरूरुस्थस्य प्रगतिविद्यालयस्य विद्यार्थिनः अनुपमां प्रतिभां प्रदर्श्य महद्यशः अविन्दन् ।

 

प्रगतिविद्यालयस्य आङ्ग्लमाध्यमशाखायाः उच्चप्राथमिकशालायाः सृजननाय्काख्यः छात्रः छद्मवेषस्पर्धायां भागमूढ्वा प्रथमस्थानम् अलभत ।

 

प्रौढशालाविभागे अश्विनी भैरव हेगडे नील्कोड इत्याख्या छात्रा कन्नडचर्चास्पर्धायां द्वितीयस्थानं प्राप्नोत् ।

 

एतेषां छात्राणां समर्जनमभिलक्ष्य मुख्याध्यापकः शिक्षकाः शालाप्रशासनमण्डलीसदस्याः कर्मिणश्च शुभमाशास्य छात्रान् अभ्यनन्दन् ।

Author Details


Srimukha

Leave a Reply

Your email address will not be published. Required fields are marked *