चन्द्रगिरिवलये प्रदोषरुद्रपठनम्।

मुल्लेरियाहव्यकमण्डलस्य चन्द्रगिरिवलयस्थे ‘अनघा’ नाम्नि गीतालक्ष्मीदिनेशभट्टयोः निवासे 20.12.2018 तमे दिनाङ्के प्रदोषरुद्रपठनम् प्रवृत्तम्। वलयस्य वैदिकप्रधानस्य नरसिंहराजस्य नायकत्वे 22 रुद्रपाठकैः श्रीरुद्रसूक्तं पठितम्। श्रीरुद्रस्य अभिषेकपूजनमपि प्रवर्तितम्।   18 मातरः बालैः सह भजनरामायणपारायणम् कृतवत्यः।    

Continue Reading

श्रीभारतीगुरुकुले साष्टावधानं प्रदोष पूजा

होसनगरम् – होसनगरस्य श्रीरामचन्द्रापुरमठस्य श्रीभारतीगुरुकुले २०/१२/२०१८तमे दिनाङ्के सौम्यवासरे अष्टावधानसेवासहिता प्रदोषपूजा सुसम्पन्ना । वेद, शास्त्र, पुराण, अष्टक, सङ्गीत, वेणु, वीणा, मृदङ्ग, भरतनाट्यसहिता अष्टावधानसेवा अभवत् ।

Continue Reading

गोकर्णे श्रीदत्तजन्मोत्सवाचरणम्

गोकर्णम् – श्रीसंस्थानाधीश्वराणां मार्गदर्शने श्रीक्षेत्रे गेकार्णे श्रीमहाबलेश्वरदेवालायस्य परिसरे विद्यमानाय श्रीगुरुदत्तात्रयदेवाय विशेषरीत्या पूजा समर्पिता ।   वेदमूर्तिः शितिकण्ठहिरेभट्टवर्यः पूजां समाचरत् । सन्दर्भे$स्मिन् प्राशासनिकाधिकारी जी. के. हेगडेवर्यः, उपाधिवन्मण्डलस्य सदस्याश्च उपस्थिता आसन् |

Continue Reading

मठाद्वैताभयेन पाश्चात्यमाया व्यपोह्यताम् – श्रीसंस्थानाधीश्वराः अद्यतनशङ्कराचार्याः श्रीसंस्थानाधीश्वराः अपि आद्यशङ्कराचार्याः एव – विद्वान् उमाकान्तभट्टवर्यः

बेङ्गलूरु – पूर्वाचार्याः श्रीराघवेन्द्रभारतीमहास्वामिनः विद्याप्रीताः । वेदवेदाङ्गेषु अतिशयासक्तिशीलाः आसन् । अतः प्रतिवत्सरं तेषामाराधनायाः पुण्यावसरे देशस्यास्य कस्मैचन श्रेष्ठविदुषे श्रीराघवेन्द्रभारतीपाण्डित्यपुरस्कारप्रदानेन तेषां संस्मरणकार्यं श्रीमठेन निरन्तरं निरन्तरायं प्रचलदस्तीति श्रीसंस्थानाधीश्वराः अवदन् ।   गिरिनगरस्थे श्रीरामाश्रमे मार्गशीर्षशुक्लाष्टम्यां शनिवासरे, १५.१२.२०१८ तमे दिनाङ्के सञ्चालितस्य ब्रह्मैक्यजगद्गुरुशङ्कराचार्यश्रीराघवेन्द्रभारतीमहास्वामिनाम् आराधनामहोत्सवस्य धर्मसभायाः दिव्यसान्निध्यं निरूह्य प्रथितविदुषे केरेकै उमाकान्तभट्टवर्याय श्रीराघवेन्द्रभारतीपाण्डित्यपुरस्कारं प्रदाय श्रीसंस्थानाधीश्वराः इदमवोचन् यत् – “विद्वान् उमाकान्तभट्टः मैसूरुनगरस्थस्य विख्यातविद्वद्वरेण्यस्य रामभद्राचार्यस्य […]

Continue Reading

बेङ्गलूरुनगरस्य श्रीरामाश्रमे १९५ रुद्रपाठकैः श्रीकरार्चितदेवतासन्निधौ महारुद्रपठनसमर्पणम्

Continue Reading

श्रीरामाश्रमे बेंगलूरूनगरे 150 जनैः श्रीकरार्चितदेवाय महारुद्रस्य पठनं समर्पितम्।

Continue Reading

श्रीसंस्थानाधीश्वरैः ‘सन्मङ्गलम्’ इत्याख्या मङ्गलगोयात्रास्मरणसञ्चिका लोकार्पिता

बेङ्गलूरु – मङ्गलगोयात्रायाः सविवरणस्मारकं ‘सन्मङ्गलं’ गिरिनगरस्थे श्रीरामाश्रमे ०१.१२.२०१८ तमे दिनाङ्के लोकार्पितमभवत् ।   भारतीयगोवंशसंरक्षणार्थं श्रीसंस्थानाधीश्वरैः आरब्धेषु महत्कार्येषु नाना गोयात्राः प्रमुखतमाः । गोकारणात् समारब्धे प्रथमस्वातन्त्र्यसङ्ग्रामे प्रमुखनायकस्य मङ्गलपाण्डेमहोदयस्य स्मरणार्थं ‘मङ्गलगोयात्रा’ इति नाम्ना गोयात्रा २०१६ नवेम्बरमासादारभ्य २०१७ जनवरिपर्यन्तं राज्ये सर्वत्र सञ्चरितासीत् । इयं गोयात्रा २०१७ जनवरिमासस्य २७ दिनाङ्कतः २९ पर्यन्तं मङ्गलूरुमहानगरे मङ्गलभूमौ महामङ्गलकार्यक्रमद्वारा सुसम्पन्नाभूत् । अस्याः मङ्गलगोयात्रायाः मधुरस्मरणार्थं […]

Continue Reading

श्रीरामाश्रमे श्रीराघवेन्द्रभारतीमहास्वामिनाम् आराधनामहोत्सवः

ब्रह्मलीनानां परमगुरूणां श्रीमज्जगद्गुरुशङ्कराचार्यश्रीराघवेन्द्रभारतीमहास्वामिनां सांवत्सरिकः आराधनामहोत्सवः विलम्बसंवत्सरस्य मार्गशिरशुक्लाष्टम्यां स्थिरवासरे, १५.१२.२०१८ तमे दिनाङ्के आचरिष्यते ।   अयमाराधनामहोत्सवः गिरिनगरस्थे श्रीरामाश्रमे श्रीमज्जगद्गुरुशङ्कराचार्यश्रीराघवेश्वरभारतीमहास्वामिनां दिव्यसान्निध्ये भविष्यति ।   पश्चात् प्रचालयिष्यमाणायां धर्मसभायां श्रीराघवेन्द्रभारतीपाण्डित्यपुरस्कारः, श्रीसंस्थानाधीश्वराणामाशीर्वचनं, श्रीपरम्परानुग्रहः, मन्त्राक्षतानुग्रहः चेत्यादयः कार्यक्रमाः सम्पत्स्यन्ते ।   श्रीमठस्य शिष्यभक्ताः अस्मिन् महोत्सवे भागिनो भूत्वा श्रीगुरुदेवतानुग्रहं प्राप्नुवन्तु इति श्रीमठस्य उत्सवकार्यदर्शी हिरेमने शान्तारामवर्यः विज्ञापितवान् ।

Continue Reading