मालूरु गोशालायां गोपूजा दीपोत्सवश्च – पुण्यकार्ये भागिनः गोप्रेमिणः

मालूरु – मालूरुजनपदस्य गङ्गापुरस्थे श्रीराघवेन्द्र-गो-आश्रमे नवेम्बरमासस्य अष्टमे दिनाङ्के दीपावल्यङ्गभूता गोपूजा सम्पन्ना अभवत् । वेदमूर्तेः गोपालकृष्णभट्टस्य मार्गदर्शने गो-आश्रमसेवासमितेः कोशाध्यक्षः सर्वसदस्यानां प्रतिनिधिर्भूत्वा पूजां समार्पयत् ।   तदनु दीपावल्याः प्रकाशं समग्रगोशालायां व्यापयितुं गोशालां परितः दीपान् प्रज्वाल्य दीपोत्सवश्च समाचरितः ।   अस्मिन् अवसरे एव क्षेत्रदेवं श्रीसिद्धाञ्जनेयस्वामिनपि विशेषाभिषेकैः समपूजयन् ।   गोपूजाकार्ये कार्त्तिकदीपोत्सवे च श्रीरामचन्द्रापुरमठस्य माध्यमकार्यदर्शी रामचन्द्रः अज्जकान, निर्वहणासमितेः अध्यक्षः […]

Continue Reading

मुम्बैनगरेऽपि ससमुल्लासं प्राचालि गोपूजा – गोप्रेमिभिः सार्थकदीपावल्याचरणम्

मुम्बै – गोपूजादीपावल्योः अविनाभावसम्बम्धो विद्यते । कृष्यवलम्बितप्रदेशेषु दीपावल्यां गोपूजाकरणं तु सम्प्रदायः । परन्तु गोपूजा न केवलं ग्राम्यप्रदेशे अपि तु महानगरेष्वपि प्रचाल्यते इति विशेषः ।   श्रीरामचन्द्रापुरमठस्य श्रीसंस्थानाधीश्वराणां मार्गदर्शनेन मुम्बैमहानगरे कोल्हाडजनपदे प्रचाल्यमानायां गोशालायां ग्राम्यप्रदेशस्यापेक्षया समुल्लासेन दीपावलीपर्वणि गोपूजामकुर्वन् गोप्रेमिणः ।   नवेम्बरमासस्य अष्टमे दिनाङ्के सम्पन्नायां गोसपर्यायां मुम्बैहव्यकवलयाध्यक्षः श्रीकृष्णभट्टः गुड्डेबालु महाभागः गोपूजामकरोत् । तदनु मुम्बैहव्यकवलयस्य दशाधिकसदस्याः गोग्रासं दत्वा […]

Continue Reading

जेड्ल गोशालायां दीपावली – गोपूजा कुङ्कुमार्चनञ्च

सुल्य – सुल्यहव्यकवलयेन सम्पाजेग्रामस्य जेड्लपरिसरे स्थितायां गोशालायां नवेम्बरमासस्य नवमदिनाङ्के श्रद्धया भक्त्या च गोपूजनं समाचरितम् ।   गोपूजावसरे मातरः कुङ्कुमार्चनं कृतवत्यः। वैदिकविभागद्वारा ११४ तमं वेदवाहिनीपारायणमपि प्रवृत्तम् । एत्तुकल्लु नारायणभट्टः अरम्बूरु कृष्णभट्टः विश्वकीर्तिजोयिसमहोदयः वेङ्कटेशशास्त्री चेत्येते वैदिकवरेण्याः वेदपारायणम् अन्यधार्मिकविधीन् च प्रावर्तयन् ।   वलयस्य अध्यक्षः सुब्रह्मण्यभट्टः, उपाध्यक्षः विष्णुकिरणभट्टः, कोशाधिकारी ईश्वरभट्टः, कुम्बेत्तिनवन शिवरामभट्टः, उबरड्क सुधीरभट्टः च उपस्थिताः आसन् । […]

Continue Reading

हे कृषीवलाः ! भवतां कृषिभूमेः सत्त्वं वर्धयितुं समागतः स्वर्गसारः अयं कृषकाणां कृते गोफलन्यासेन सज्जीकृतः परिपूर्णः जैविकः सारकरीषः

अस्माकं सनातनसाहित्येषु `गोमये वर्तते लक्ष्मीः’ इति निरुक्तं दृश्यते । गोमाता तु यावज्जीवं मानवस्य आश्रयदात्री । गोमयं गोमूत्रं च तस्याः प्रधानयोगदानम् । अस्माकं पूर्वजाः गोमूत्रं गङ्गा इति गोमयं च लक्ष्मीः इति परिगणयन्ति स्म । एतादृशम् आरोग्यकरं पूजनीयं च गोजन्यवस्तु अस्माकं भूमेरन्तः गच्छति चेदेव वयम् आरोग्यपूर्णम् आहारं लभामहे । एवं हि विषमयैः रासायनिकैः अस्माकम् आहारं विमोच्य आरोग्यपूर्णम् […]

Continue Reading

गोस्वर्गे गव्योत्पन्ननिर्माणस्य प्रशिक्षणशिबिरम् ।

उत्तरकन्नडमण्डलस्य सिद्धापुरजनपदे सहस्राधिकगवां स्वच्छन्दसाम्राज्ये सप्तदेवतानां सान्निध्ये गोस्वर्गे कर्नाटकराज्यस्य गोपरिवारस्य आश्रये नवम्बरमासस्य २३, २४, २५ दिनाङ्केषु गव्योत्पन्नानां निर्माणार्थं प्रशिक्षणशिबिरम् आयोजितं वर्तते ।   शिबिरेऽस्मिन् गवां महत्त्वमभिलक्ष्य बोधनेन सह गोमूत्रगोमयादीनि समुपयुज्य आरोग्यं कृषिः प्रकृतिसमृद्धिः इत्यादिषु क्षेत्रेषु अनुप्रयोगयोग्यानां गव्योत्पन्नानां निर्माणविषये प्रत्यक्षविधिना प्रशिक्षणं प्रदीयते । त्रिदिवसीये शिबिरे शिबिरार्थिनां कृते सामूहिकावासभोजनादिव्यवस्थाः प्रकल्प्यन्ते ।   इच्छुकाः नवम्बरमासस्य विंशतिदिनाङ्कात् प्राक् निश्चितशुल्कं प्रदाय […]

Continue Reading

गोभ्यो ग्रासः – श्रमदानद्वारा विभिन्नं कार्यम् – अमृतधारागोशालायै गोप्रेमिणां साहाय्यम्

गोभ्यो ग्रासः – श्रमदानद्वारा विभिन्नं कार्यम् – अमृतधारागोशालायै गोप्रेमिणां साहाय्यम् कासरगोडु – कासरगोडुजनपदस्य पेर्लप्रदेशस्य बजक्कूड्लुग्रामस्य अमृतधारागोशालायां स्वयम्प्रेरितश्रमदानेन अपूर्वरीत्या गोभ्यो ग्राससमर्पणकार्यक्रमः प्राचलत् । कुम्बलेवलयस्य सीतङ्गोलिग्रामस्य हमीद् नेल्लिकुन्नु महाभागस्य केदारस्थले सार्द्रतृणानि वर्धितानि आसन् । मुल्लेरिया हव्यकमण्डलस्य चन्द्रगिरिवलयस्य गोप्रेमिणः तेषां तृणानां सदुपयोगकरणार्थं तृणानि कर्तयित्वा तानि वाहनसाहाय्येन बजक्कूड्लु – अमृतधारागोशालां प्रैषयन् । श्रीरामचन्द्रापुरमठस्य मुल्लेरियामण्डलस्य विद्यार्थिवाहिनीप्रधानः केशवप्रसादः एडक्कान, कुम्बलेवलयाध्यक्षः बालकृष्णशर्मा, […]

Continue Reading